________________
उत्तरा०
अवचूर्णिः
।। ५८ ।।
oxoxoxox
शुद्धैषणाश्च उद्गमैषणाद्या संसृष्टाद्या वा ज्ञात्वा तत्रैषणासु स्थापयेद् भिक्षुरात्मानं, कोऽर्थः ? अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात्, यात्रायै - संयमनिर्वहणार्थ ग्रासमेषयेत् - गवेषयेत्, तथा रसगृद्धो न स्यात् भिक्षादः, उपलक्षणत्वात् अद्वेषश्च, अनेन ग्रासैषणोक्ता ॥ ११ ॥ २१८ ॥
अगृद्धश्च रसेषु यत् कुर्यात् तदाह
पंताणि चैव सेविज्जा सीयपिंडं पुराणकुम्मालं । अदु वुक्कसं पुलागं वा जवणट्ठाए नि (प्र० द्वव ) सेवए मधुं ॥ २१९ ॥ प्रान्तादीनि - नीरसानि, अन्नपानानि इति गम्यते, चादन्तानि च, एवस्य भिन्नक्रमत्वात्, सेवेतैव, शीतोऽपि शाल्यादिपिण्डः, सरस एव स्याद् अत आह- पुराणाः प्रभूतवर्षभूताः कुलमाषाः - राजमाषा अत्यन्तपूतयो नीरसाश्च स्युः, उपलक्षणं चैतत् पुराणमुद्गादीनां, अदु इति-अथवा बुक्कसं-निष्पीडितरसं अनिष्पन्नं वा पुलाकं असारं वल्लकचनकादि, वा समुच्चये, यापनार्थशरीरनिर्वाहार्थ निषेवेत, यदि त्वतिवातादिना तद्यापनैव न स्यात् तदा न निषेवेतापि स्थविरः, जिनस्तु एतान्येव निषेवेत, चस्य लुप्तनिर्दिष्टत्वात्, मन्थं च चदरादिचूर्ण अतिरुक्षतया चास्य प्रान्तत्वं, असारवस्तूपलक्षणं चैतत् पुनः क्रियाभिधानं न सकृदेवामूनि प्रान्तानि सेवेत, किंतु अनेकधाऽपीति ख्यापनार्थम् ॥ १२ ॥ २१९ ॥
शुद्धैषणास्थापनविपर्यये दोषमाह -
जे लक्खणं च सुविणं च अंगविज्जं च जे पउंजंति । न हु
ये लक्षणं च शुभाशुभसूचकं, पुरुषलक्षणादिलक्षणं, रूढितस्तत्प्रतिपादकं शास्त्रमपि लक्षणं एवमग्रेऽपि, यथा 'अस्थिष्वर्था '
Jain Educationational
समणा वुच्चति एवं आयरिएहिं अक्खायं ॥ २२० ॥
For Private & Personal Use Only
XXXX
कापिलीयाध्ययनम् ८
उत्तर
गुणोक्तिः
॥ ५८ ॥
ainelibrary.org