________________
उत्तरा अवचूर्णिः
कापिलीयाध्ययनम् ८
दुष्परित्यजा-दुष्परिहार्या इमे कामाः, इमे कामा नैव सुहाना-सुत्यजाः, अधीरपुरुषैः-असात्विकनरैः, दुष्परित्यजा इत्युक्तेऽपि A नैव सुहाना इति पुनरुक्तिस्तदत्यन्तदुःपरित्यजत्वख्यापिका, धीरैस्तु सुत्यजा एवं अत एवाह-अथोपन्यासे सन्ति सुव्रता-साधवः ये तरन्ति व्रतादिना अतरं-तरीतुं अशक्यं विषयगणं भवं, वा शब्दस्यैवार्थत्वाद्वणिज इवाब्धि पोतेन ॥ ६॥२१३ ॥
सर्वेऽपि साधवस्तरन्ति उत नेत्याहसमणा मु एगे वयमाणा पाणवह मिया अजाणता । मंदा नरयं गच्छंति बाला पावियाहिं दिट्ठीहिं ॥ २१४॥ ।
श्रमणाः-साधवः मु इति वयमित्येके केचित् कुतीर्थ्याः वदमानाः-स्वाभिप्रायं उद्दीपयन्तो 'दीप्तिज्ञानयत्ने' त्यादिनाऽऽत्मनेपदं, प्राणवधं, मृगा इव मृगाः प्राग्वत् अज्ञा अजानन्तः, अनेन च प्रथमव्रतमपि न विदन्ति, आस्तां शेषव्रतानि, अत एव मन्दा मिथ्यात्वरोगग्रस्ततया निरयं-नरकं गच्छन्ति, बाला-हेयोपादेयविकलाः, पापिकाभिः-पापहेतुभिः दृष्टिभिः-दर्शनाभिप्रायैः। ब्रह्मणे ब्राह्मणमालभते, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्य, तपसे शूद्रमित्यादिभिः दयाबहिःकृतैः॥७॥ २१४ ॥
अत एवाह सूत्रकृत्न हुपाणवहं अणुजाणे मुचिज कयाइ सव्वदुक्खाणं । एवमारिएहिमक्खायं जेहिं इमो साहुधम्मो पन्नत्तो॥२१५॥
न हु-नैव (प्राणवधं ) मृषावादाधुपलक्षणं चैतत् , अपेक्षुप्तनिर्दिष्टत्वात् , अनुजानन्नपि, आस्तां, कुर्वत् , कारयन् वा, मुच्येत, कदाचित् सर्वदुःखैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्तीत्युक्तं, किमेतत्त्वयैवोच्यते ? इत्याह-एवम् उक्तप्रकारेण आर्याः-तीर्थकरादयः आचार्या वा तैराख्यातं, यैराराचार्यैर्वा अयं साधुधर्मः प्ररूपितः ॥ ८॥११५ ॥
XOXOXOXOXOXOXOXOXOXOXOXOX
| व्रतवतामेव
मोक्षो नान्येषां कुतीर्थिका नाम्
॥५७॥
Jain Educati
o nal
For Privale & Personal use only
jainelibrary.org