________________
*
यदसौ भाषते तदाहसव्वं गंथं कलहं च विप्पजहे तहाविहं(हो पा०)भिक्खू । सव्वेसु कामजाएसु पासमाणो न लिप्पई ताई ॥२१॥
सर्व ग्रन्थ-धनं मिथ्यात्वादि, कलहहेतुत्वात् कलहः-क्रोधस्तं, चात् मानादींश्च, विप्रजह्यात् , तथाविधं कर्मबन्धहेतुं, न तु धर्मोपकरणमपि, भिक्षुः, ततश्च सर्वेषु कामप्रकारेषु पश्यन् विपाककटुतामिति गम्यं, न लिप्यते कर्मणा, कामदोषज्ञस्य तेषु प्रायोऽत्र प्रवृत्तेरभावात् , तायते त्रायते वा-रक्षत्यात्मानं दुर्गतेरिति तायी त्रायी वेति ॥४॥२११॥
इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाहभोगामिसदोसविसन्ने हियनिस्सेयसबुद्धिवोच्चत्थे(विवजत्थेप्र०)। बाले य मंदिर मूढे बज्झई मच्छिया वलंमि २१२
भोगा एव गृद्धिहेतुत्वाद् आमिषं तदेवात्मदूषणाद् दोषः तत्र विशेषेण सन्नो-निमग्नः, हितो यो निःश्रेयसो-मोक्षः तस्मिन् बुद्धिस्तत्प्राप्युपायविषया सा विपर्यस्ता यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः, बाल:-अज्ञः, मंदिएत्ति मन्दो-धर्मानुद्यतः मूढोमोहाकुलितमानसः, वध्यते कर्मणेति गम्यते, मक्षिकेव खेले-श्लेष्मणि, रजसेति गम्यं, यथा असौ तद्गन्धादिभिराकृष्यमाणा खेले मज्जति मग्ना च रेवादिना बध्यते, तथा जन्तुरपि भोगामिषमग्नः कर्मणेत्यभिप्रायः॥५॥२१२॥ ननु यद्यमी भोगाः कर्मबन्धहेतवः तर्हि किं नैतान् सर्वेऽपि जन्तवः त्यजन्तीत्याह
दुप्परिचया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति सुब्बया साहु जे तरंति अतरं वणिया व( वणिया व समुदं पा०)॥२१३॥
FORakkakaXXXXXXXXXX
पन्थत्यागिना गुणस्त्यागिना दोषश्च
Jain Educa
t
ional
For Privale & Personal Use Only
Co
n
eibrary.org