________________
उत्तरा० अवचूर्णिः
॥ ५६ ॥
श्वते-अनित्ये संसारे, सूत्रत्वात् दुःखस्य प्राङ्गिपाते प्रचुरदुःखे, यद्वा दुःखानां प्रचुरा आयो-लाभो यस्मिन् तस्मिन् , किं प्रश्ने, नाम सम्भावनायां, भवेत् तत् कर्मक-अनुष्ठान, येन कर्मणा हेतुना अहं दुर्गतिं न गच्छेयं-न यायां, भगवतो निस्संशयं दुर्गत्यभावेऽपि प्रतिबोध्यापेक्षमित्यमभिधानम् ॥१॥२०८॥
एवं भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति, तैश्च प्रत्युद्गीते स आहविजहित्तु पुवसंजोगं न सिणेहं कहिंचि कुविजा। असिणेह सिणेहकरेहिं दोसपडसेहि(पदहि पा.)मुच्चई भिक्खू॥
विहाय पूर्वसंयोगं-मात्रादिसंबंध, न स्नेह-अभिष्वङ्गं क्वचिद्वाह्ये अभ्यन्तरे वा वस्तुनि कुर्यात् , तथाऽऽह-अस्नेहः-प्रतिबन्धरहितः, अपेर्गम्यत्वात् (सुब्व्यत्ययाच्च ) स्नेहकरेष्वपि-स्नेहकरणशीलेष्वपि पुत्रकलत्रादिषु, आस्तां अन्येष्वित्यपेरर्थः, दोपैरिहैव मनस्तापादिभिः प्रदोषैश्च-परत्र नरकगत्यादिभिर्मुच्यते-त्यज्यते भिक्षुः॥२॥२०९॥
पुनर्यदसौ कृतवांस्तदाहतोनाण दंसणसमग्गो हियनिस्सेयसाए सव्वजीवाणं । तेसिं विमोक्खणट्टाए भासइ मुणिवरो विगयमोहो॥२१॥
ततो ज्ञानदर्शनाभ्यां प्रस्तावात् केवलाभ्यां समग्रः-समन्वितः, हितः-पथ्यो निःश्रेयसः-मोक्षः तस्मै, चस्य भिन्नक्रमत्वात् , सर्वजीवानां तेषां च चौराणां विमोक्षणार्थ-अष्टविधकर्मविमोचनार्थ, तानेवोद्दिश्य भगवत्प्रवृत्तेः पुनर्विमोक्षणार्थताभिधानं अदुष्ट, दृश्यते हि 'ब्राह्मणा आयाता वशिष्ठोऽप्यायात' इति सामान्योक्तावपि पुनः प्रधानस्याभिधानमिति, भाषते वर्तमानानिर्देशः तत्कालापेक्षया, मुनिवरो विगतमोहः॥३॥२१॥
**OXOXOXOXON
कपिलकेवलिनश्चौरान प्रत्युपदेशः
Jain Education.
i
n
For Privale & Personal use only
Manlanelibrary.org