SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥ अथ अष्टमं कापिलीयाध्ययनम् ॥ निर्लोभत्वे कपिल अनन्तराध्ययने रसगृद्धित्याग उक्तः, स च न निर्लोभत्वेनैवेत्यस्मिन्निर्लोभत्वमुच्यते___अस्य चाध्ययनस्यायमुत्पत्तिक्रमः-(१०४६) कौशाम्ब्यां काश्यपद्विजपुत्रः कपिलः, पितृमरणानन्तरं मात्रादेशात् विद्यार्थ श्रावस्त्यां पितृमिनेन्द्रदत्तद्विजान्ते गतः, तेन शालिभद्रेभ्यगृहे अन्नार्थ भणितः, पठंश्च परिवेषिकायां दास्यां लग्नः, तत्प्रेरितः अन्यदा सुवर्णमाषद्वयार्थी सन् प्रथमवर्द्धापकसुवर्णमाषद्वयदायिधनश्रेष्ठिनं वर्धापयितुं पश्चिमरात्रावेव व्रजन्नारक्षकैः धृत्वा राज्ञोऽर्पितः, सद्भावोक्तौ राज्ञा तुष्टेन यद् याचसे | तद् ददामीति भणितः, अशोकवनिकांतश्चिंतयन् जाति स्मृत्वा स्वयं बुद्धः कृतलोचो राज्ञोऽग्रे आगत्य अवदत् “जहा लाहो" इत्यादि, ततः संयम पालयन् षण्मासान्ते तस्य केवलोत्पत्तिः, अतो राजगृहान्तरे १८ योजनाटव्यां बलभद्राद्या इक्कडदासाश्चौराः पञ्चशतमितास्तद्बोधनायागतो ज्ञानेन ज्ञात्वा, ततस्तैर्भणितं, श्रमण ! नृत्यस्व, ततः असौ "अधुवे" इत्यादिध्रुवकान् गायन्नृत्यति, चौराश्च तालान् कुट्टयन्ति, तत्र केचिदाद्यध्रुवकेण केचित् द्वितीयेनैवं यावत्सर्वेऽपि प्रतिबुद्धा प्रव्रजिताः' इति सम्प्रदायः । अधुवे असासयम्मि(अधुवंमि मोहगहणए पा०)संसारम्मि दुक्खपउराए। किं नाम हुज तं कम्मयं? जेणाहं दुग्गइं न गच्छेजा(जेणाधं दुग्गईतो मुच्चेजा पा०)॥२०८॥ ध्रुवो-य एकास्पदप्रतिवद्धो न तथा अध्रुवस्तस्मिन् , भ्रमन्ति हि अस्मिन् , केषु ?-उच्चावचेषु स्थानेषु जन्तव इति, अशा केवलिकथा Jain Educati ptional For Privale & Personal use only Now.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy