________________
उत्तरा० अवचूर्णिः
औरभ्रीयाध्ययनम् ७
यतश्चैवंविधः ततो यद्विधेयं तदाहतोलयित्वा-गुणदोषवत्तया परिभाव्य,णमिति वाक्यालङ्कारे, बालभावं-बालत्वं भावप्रधानत्वात् निर्देशस्य, अबालत्वं-धीरत्वं, चः समुच्चये, प्राकृतत्वात् बिन्दुलोपः, एवं-अनन्तरोक्तप्रकारेण पण्डितस्त्यक्त्वा बालत्वं, अबालत्वं सेवते मुनिः ॥ ३०॥२०७॥ इति ब्रवीमीति प्राग्वत् ॥
इत्यौरभ्रीयावचूरिः॥
अबालत्वाचरणोपदेशः
॥ इति श्रीउत्तराध्ययने सप्तमस्यौरभ्रीयस्य
अध्ययनस्य अवचूरिः समाप्ता ॥
Jain Education
For Privale & Personal use only
libraryong