________________
इह कामनिवृत्तस्यात्मार्थो न अपराध्यति, यतः पूतिः-कुथितो देहोऽर्थात् औदारिकशरीरं तस्य निषेधोऽभावस्तेन भवेत कामनिवृत्ती देवः, उपलक्षणत्वात् सिद्धो वा, इति मया श्रुतं गुरुभ्यः॥ २६ ॥ २०३॥
ततश्च यदसौ आप्नोति तदाह
इडीजुती जसो वन्नो, आउं सुहमणुत्तरे । भुजो जत्थ मणुस्सेसुं, तत्थ से उववज्जति ॥ २०४॥ ऋद्धिः-स्वर्णादिः, द्युतिः देहस्य, यशः पराक्रमजं, वर्णः-गांभीर्यादिगुणैः श्लाघागौरवादि, आयुः, सुखं, अनुत्तरं-सर्वप्रधानं इति सर्वत्र योज्यते, भूयः-पुनर्देवभवापेक्षायामिति, एतानि अनुत्तराणि एव यत्र-येषु मनुष्येषु तत्र-तेषु स उपपद्यते॥२७॥२०४॥
एवं कामानिवृत्तिनिवृत्तिभ्यां क्रमेण बालपण्डितावुक्ती, सम्पति तयोस्तथाभूतयोः स्वरूपं फलं चोपदर्शयन्नुपदेशमाहबालस्स पस्स बालत्तं, अहम्मं पडिवजिया (णो पा.)। चिचा धम्मं अहम्मिट्टे, नरएसूववजह ॥ २०५॥ धीरस्स पस्स धीरत्तं, सव्वधम्माणुवत्तिणो। चिचा अधम्म धम्मिटे, देवेसु उववजई ॥२०६॥ तुलिआ णं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी ॥ २०७॥ त्ति बेमि ॥ बालस्य-अज्ञस्य पश्य बालत्वं-अज्ञत्वं, यतोऽधर्मविषयासक्तिरूपं प्रतिपद्य, त्यक्त्वा धर्म-विषयनिवृत्तिरूपं, अधर्मिष्ठो नरके, उपलक्षणत्वात् , अन्यत्र दुर्गती, उपपद्यते ॥ २८॥ २०५॥
धिया राजत इति परीषहाद्यक्षोभ्यो वा धीरस्तस्य पश्य धीरत्वं सर्व धर्म क्षान्त्यादिरूपं अनुवर्तते इत्येवंशीलो यस्तस्य, त्यक्त्वा अधर्म धर्मिष्ठः-अतीवधर्मा, यद्वा अतिशयेन धर्मवान् , देवेषु उपपद्यते ॥ २९ ॥२०६॥
बालपण्डितXयोरुत्पत्ति| स्थाननिर्देश
उत्तरा०१०
Jain Education
For Private & Personal use only
library