________________
मौलिक-मूलधनभूतं मानुषत्वं ते अतिक्रान्ता-उल्लङ्कितवन्तः, तथा अतिक्रम्य शीलं-सदाचारो येषां ते तथा, सह विशेषेणउत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्त्तन्ते इति सविशेषाः, अत एव अदीनाः यान्ति देवभावो देवता सैव दैवतं, साम्प्रतं विशिष्टसंहननाभावात् मुक्तिगतेरत्र व्यवच्छिन्नत्वात् देवत्वमेव लाभ उक्तः॥ २१ ॥ १९८ ॥
प्रस्तुतमेवार्थ निगमयन्नुपदेशमाह
एवं अदीणवं भिक्ष, अगारिंच विजाणिया। कहन्न जिचमेलिक्वं, जिच्चमाणो न संविदे? ॥ १९९॥ एवं लाभान्वितं अदीनं भिक्षु अगारिणं च विशेषेण देवनृगतिगामित्वलक्षणेन ज्ञात्वा यतमान इति शेषः, कथं, न कथञ्चिदित्यर्थः, नु वितर्के, जिचंति सूत्रत्वात् जीयेत-हार्येत, विवेकी, तत्प्रतिकूलैः कषायोदयादिभिरिति गम्यं, ईदृशं पूर्वोक्तं देवनरगतिलाभासंभवादिति गम्यं, ततो जीयमानो हार्यमाणो वा तैरेव कषायादिभिः, कथमिहापि योज्यं, न संवित्ते, अपि तु जानीतएव, ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च संविदानश्च, यथा न जीयेत तथा यतेत तन्निरोधायेति ॥ २२ ॥१९९॥
समुद्रदृष्टान्तमाह
जहा कुसग्गे उदयं, समुहेण समं मिणे । एवं माणुस्सग्गा कामा, देवकामाण अंतिए ॥ २० ॥ यथा कुशाग्रे-दर्भकोटावुदकं समुद्रेणोपचारात् समुद्रजलेन समं मिनुयात्-परिच्छिन्द्यात्, एवं उक्तनीत्या मानुष्य काः कामा देवकामानां अन्तिके-समीपे, कृता इति शेषः, यथा अज्ञो विन्दुमन्धिवन्मन्यते, तथा चक्रवर्त्यादिमनुष्यकामान् देवकामान् मन्यते, न तु बिन्दुसमुद्रवत् महदन्तरं वेत्ति ॥ २३ ॥२०॥
| मनुष्यदेव
काम योः * समुद्रदृष्टान्ते
न तुलना
BOXOXOXOXOXO
XOXOXOXOXOXOX
Jain Educa
t
ional
For Privale & Personal use only
ITU.jainelibrary.org