________________
*
*
*
*
*
*
*
मानुषत्वं भवेत् मूलं इव मूलं, स्वर्गाद्युत्तरोत्तरलाभहेतुतया लाभो-अनुष्यापेक्षया सुवादिभिर्विशिटत्वात् देवगतिर्भवेत् , मूलच्छेदेन-मानुष्यहान्या जीवानां नरकतिर्यक्त्वं ध्रुव-निश्चितं, अत्रोदाहरण-यथा त्रयः संसारिणः-सत्त्वा मानुषत्वे आगता, तत्रैको मार्दवादिगुणवान् मध्यमारम्भपरिग्रहश्च कालं कृत्वा मूलस्थानीयं तदेव मानुषत्वं लभते, द्वितीयः पुनः सम्यग्दर्शनादिविशेषगुणवान् सरागसंयमेन लाभस्थानीयं देवत्वं लभते, तृतीयस्तु 'हिंसे वाले मुसाबाई' (गा. १८२) इत्यादिपूर्वोक्तसावद्यारम्भासक्तो मूलच्छेदस्थानीयेषु नरकेषु तिर्यक्षु वोत्पद्यत इति ॥ १६ ॥ १९३ ॥
यथा मूलच्छेदेन नरकतिर्यक्त्वाप्तिस्तथा स्वयं सूत्रकृदाह
दुहओ गती बालस्स, आवती वहमूलिया। देवत्तं माणुसत्तं च, जं जिए लोलुआसढे ॥ १९४ ॥ द्विधा गतिः नरकगतिः तिर्यग्गतिश्च बालस्य, स्यादिति गम्यं, आपतति-आगच्छति वधो मूलं आदिर्यस्याः सा वधमूलिका, देवत्वं मानुषत्वं च यत्-यस्माजितो-हारितो लोलता-पिशितादिलाम्पट्यं तद्योगाजन्तुरपि लोलता, अनेन नरकहेतुत्वाभिधानं, शाठ्ययोगात् शठो-विश्वस्तजनवञ्चकः, अनेन तिर्यग्गतिहेतुरुक्तः॥ १७ ॥ १९४ ॥
पुनर्मूलच्छेदमेव समर्थयति
ततो जिए सई होइ, दुविहं दुग्गतिं गते । दुल्लहा तस्स उम्मजा, अद्धाए सुचिरादवि ॥ १९५ ॥ ततो देवत्वमनुजत्वजयनात् जित एव सदा भवति, द्विविधां-नरकतिर्यग्भेदां, दुर्गतिं गतः, सदा जितत्वमेव व्यनक्ति
मूलच्छेदिक
*
ज्जीवानां नरकतिर्यक्वाप्तिः
*
*
KOXOXOXOXOX
*
*
*
JainEducaDOI
For Private & Personal Use Only
A
jainesbrary.org