SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः औरधीयाध्ययनम् ७ ॥५१॥ लोकोऽयं, यावानिन्द्रियगोचरः।" इति नास्तिकतया परलोकनिरपेक्ष इत्यर्थः, अजवदागते आदेशे, इदं च प्रपञ्चितज्ञविनेयानु- ग्रहाय स्मारितं, मरणान्ते शोचते, हा उपार्जितगुरुकर्मणा वेदानी मया गन्तव्यमित्यादिप्रलापतः खिद्यते ॥९॥१८६ ॥ अनेनैहिकोऽपाय उक्तः, सम्प्रति पारभविकमाह| तओ आउ परिक्खीणे, चुत (प्र. ओ) देहा विहिंसगा। आसुरियं दिसं बाला, गच्छंति अवसा तमं ॥ १८७॥ ततः-शोचनानन्तरं आयुषि परिक्षीणे-सर्वथा क्षयं गते च्युताः-भ्रष्टाः, देहाद्विहिंसकाः-प्राणिघातकाः, असुराणां-रौद्राणामियमासुरी या तां भावदिश, नरकगतिमित्यर्थः, बाला गच्छन्ति, अवशाः-कर्मवशाः, तमोयुक्तत्वात्तमः, सर्वत्र बहुवचो व्याप्त्यर्थ, यथा नैक एवंविधः किन्तु बहव इति ॥ १० ॥ १८७॥ सम्प्रति काकिण्यानदृष्टान्तावाह जहा कागिणीए हेळं, सहस्सं हारए नरो। अपत्थं अंबगं भुच्चा, राया रजं तु हारए ॥ १८८ ॥ यथा काकिण्या-विंशतिकपर्दमय्या रूपकाशीतितमभागरूपायाः हेतोः कारणात् सहस्रं कार्षापणानामिति गम्यं, हारयेत् | नरः, अत्रोदाहरणं (६०४०) यथा| कश्चिद् द्रमको महोपक्रमेण कार्षापणसहस्रं उपाय॑ सार्थेन समं स्वगृहं प्रस्थितो, भोजनार्थ एकरूपकं काकिणीभिर्मित्त्वा दिने दिने काकिण्या भुङ्क्ते, एवमन्यदा सार्थे चलितेऽपि विस्मृतशेषककाकिण्यर्थ कचित्प्रदेशे निजवांसलिका संगोप्य पश्चान्निवृत्तः, | ततः केनापि काकिनीवांसलिकाऽपहता, ततोऽसौ गृहं गतः शोचते । भोगानां तुच्छत्वे काकिण्याब्रदृष्टान्तौ ॥५१॥ XOXOX Jain Education For Privale & Personal use only elbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy