________________
8XOK
__ अदीयत इत्यादान-धनधान्यादि नरकहेतुत्वान्नरकं दृष्ट्वा नाददीत तृणमपि आस्तां हिरण्यादि, जुगुप्सते आत्मानमाहारं विना धर्मधारणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः पात्रे दत्तं-निसृष्टं गृहस्थैरिति गम्यं, भुञ्जीत भोजनं, अत्र जुगुप्सितशब्देनाहाराप्रतिबन्धदर्शनात् परिग्रहाश्रवनिरोध उक्तः, तदेवं तन्मध्यपतितस्तद्ब्रहणेन गृह्यत इति न्यायान्मृषावादादत्तादानमैथुनाश्रवनिरोधोऽप्युक्तः ॥ ८॥१६७ ॥
एवं पंचाश्रवविरमणात्मके संयमे यथा परे विप्रतिपद्यन्ते तथाह___ इहमेगे उ मन्नंति, अपच्चक्खाय पावगं । आय(या पा०)रियं विदित्ता णं, सव्वदुक्खा विमुच्चह ॥ १६८॥ ___ इह-जगति मुक्तिपथविचारे वा, मोऽलाक्षणिकः, एके कपिलादिकुतीर्थ्याः, तुः-पुनरर्थे, मन्यन्ते, उपलक्षणत्वात् प्ररूपयन्ति च, अपच्चक्खाय-अनिराकृत्य पापकं-हिंसादिविरतिमकृत्वैव, आर्य तत्त्वं यद्वाऽऽचरितं तत्तक्रियाकलापं ज्ञात्वा सर्वदुःखात्म विमुच्यन्ते ॥ ९॥ १६८॥
ते चैवं वा चैवात्मानं स्वस्थयन्ति, तथा चाह
भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरियमेत्तेणं, समासासेंति अप्पगं ॥ १६९॥ भणन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च मुक्त्युपायमनुष्ठान, बन्धमोक्षयोः प्रतिज्ञा-अभ्युपगमस्तद्वन्त एव केवलं, न तु तथा अनुष्ठायिनः, वाग्वीर्य-वाचालता तदेव क्रियाशून्यं वाग्वीर्यमानं, तेन समाश्वासयन्ति-विज्ञानादेव वयं *मुक्तिगामिन इति स्वास्थ्यं प्रापयन्त्यात्मानम् ॥ १० ॥ १६९ ॥
कपिलादिकतेऽविरतिः
FoXXXXXXXX
JainEducation
For Privale & Personal use only
M
ainetbrary.org