________________
उत्तरा० अवचूर्णिः
पश्चममकाममरणा
॥४४॥
KOK
मरणेऽपि यतयो यथाभूताः स्युस्तथाह
तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ । न संतसंति मरणंते, सीलमंता बहुस्सुआ॥१५६॥ तेषां भावभिक्षुणां श्रुत्वोक्तरूपस्थानावाप्तिमिति शेषः, सत्पूज्यानां सतां पूजाहाणां संयतानां-संयमवतां वश्यवतां न संत्रस्यन्ति-नोद्विजन्ते, मरणमेव अन्तस्तस्मिन् , शीलवन्तः-चारित्रिणो बहुश्रुताः॥ २९ ॥ १५६ ॥
इत्थं सकाममरणस्वरूपमुक्त्वा सम्प्रति शिष्योपदेशमाह
तुलिया विसेसमायाय, दयाधम्मस्स खंतिए। विप्पसीइज्ज मेधावी, तहाभूएण अप्पणा ॥ १५७॥ तोलयित्वा-परीक्ष्य, बालपण्डितमरण इति शेषः, ततश्च विशेष-बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणं आदायगृहीत्वा, तथा चस्य गम्यत्वात् , दयाधर्मस्य-यतिधर्मस्य च विशेष-शेषधर्मातिशयित्वलक्षणं, क्षान्त्या-क्षमया विप्रसीदेत्-विशेषेण कपायपङ्कापगमादिरूपेण प्रसन्नतां भजेत् , न कृतद्वादशवर्षसंलेखनतपस्विवत् स्वांगुलीभङ्गादिना कुप्येत् , मेधावी-मर्यादावर्ती, तथाभूतेन-यथा प्रागनाकुलचेता अभूत् मरणकालेऽपि तथाभूतेनात्मनोपलक्षितः॥ ३० ॥ १५७ ॥ विप्रसन्नश्च यत् कुर्यात् तदाह
तओ काले अभिप्पए, सड्डी तालीसमंतिए । विणएज लोमहरिसं, भेअं देहस्स कंखए ॥ १५८ ॥ ततः कषायोपशमानन्तरं काले-मरणकाले अभिप्रेते, यदा योगा नोत्सर्पन्ति, सड्डित्ति-श्रद्धावान् तादृशमिति भयोत्थं,
-
मरणकाले शिष्योपदेशः
-
H
॥४४॥
Jain Education Me
dional
For Privale & Personal use only
awajainelibrary.org