________________
KEKO
अथेत्युपदर्शने, यः संवृतः-पिहितसमस्ताश्रवद्वारो भिक्षुरिति भावभिक्षुः, स द्वयोरन्यतर एकतरः स्यात् , प्रहीणसर्वदुःखो वा सिद्धः, प्राकृतत्वात् तस्य परनिपातः, देवो वा, अपि सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तो देवोऽपि स्यादिति, कीदृक् ?, महर्द्धिकः ॥ २५॥ १५२॥
यत्र चासो देवः स्यात् तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याह
उत्तराई विमोहाई, जुइमंताणुपुब्बसो। समाइण्णाइ जक्खेहि, आवासाइ जसंसिणो ॥१५३ ।। दीहाउया दित्तिमंता (इड्डिमंताप्र०), समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा॥१५॥ ___ उत्तरा-उपरिस्था अनुत्तरविमानाख्या, विमोहा इव अल्पवेदादिमोहा इव अल्पवेदादिविशिष्टाः, द्युतिमन्तोऽनुक्रमेण समाकीर्णा व्याप्ता यक्षः-देवैः आवासा-विमानानि, सर्वत्र प्राकृतत्वात् नपुंस्त्वं, देवास्तु तत्र यशस्विनः॥ २६ ॥
दीर्घायुष ऋद्धिमन्तः-समृद्धा अतिदीप्ताः कामरूपिणो-विविधवैक्रियशक्त्यन्विताः, अनुत्तरेष्वपि विकरणशक्तेः सत्त्वात् , अधुनोत्पन्नसंकाशाः-प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि यावद् आयुस्तुल्यमेव स्यात्, भूयोऽर्चिमाली भूयःप्राचुर्ये अर्चिमाली-सूर्यः, ततः प्रभूतादित्यकान्तयः॥ २७ ॥ युग्मम् ॥ १५३-१५४॥
उपसंहर्तुमाहताणि ठाणाइ गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संतिपरिनिव्वुडा ॥ १५५॥
तान्युक्तानि स्थानानि गच्छन्ति, उपलक्षणत्वात् गता गमिष्यन्ति च, शिक्षित्वा-अभ्यस्य संयम सप्तदशधा, तपो द्वादशविधं भिक्षाका वा गृहस्था वा, भावतो यतय एव, ये शान्त्या उपशमेन परिनिवृता-विध्यातकषायानलाः॥२८॥ १५५ ॥
अनुत्तरदेवस्वरूपम्
BXXXXXXXXXXXXaoke
newmarwIDENT
JainEducati
o
nal
For Private & Personal use only
Fw.jainelibrary.org