________________
सावगो साहं पुच्छइ-सावगाणं साहूणं च किमंतरं?, साहुणा भणइ-सरिसवमंदरंतरं, तओ सो आउलीहूओ, पुणोवि पुच्छइकुलिङ्गीणं सावगाण य किमंतरं?, तेण भण्णइ-तदेव सरिसवमंदरंतरं, तओ समासस्सिओ, तथा चोक्तं-"देसिक्क देसविरया, | समणाणं सावया सुविहिआणं । जेसिं परपासंडा सइमंपि कलं न अग्यति ॥१॥” इति तदनेन तेषां सर्वचारित्राभावात् पंडितमरणाभाव उक्तः ॥ २०॥ १४७॥
ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः?, अत आह
चीराजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाईपि न तायंति, दुस्सीलं परियागयं ॥१४८ ॥ चीराणि अजिनं-मृगादिचर्म, निगिणिणं सूत्रत्वात् नान्यं भावप्रधानवान्निर्देशस्य, जटित्वं संघाटी-वस्त्रसंहतिजनिता* मुण्डित्वं एतान्यपि, आस्तां तद्गार्हस्थ्यमिति अपेरर्थः, नैव त्रायन्ते भवादुष्कर्मणो वेति गम्यं, दुःशीलं-दुराचार, परिआगयंपर्याप्तं प्रव्रज्या पर्यायप्राप्तं वा ॥२१॥ १४८॥
आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरित्युच्यतेपिंडोलए व दुस्सीलो, नरगाओ न मुच्चइ । भिक्खाए वा गिहत्थे वा, सुव्वए कमइ दिवं ॥ १४९॥ पिण्डमवलगति पिण्डावलगः-परदत्ताहारोपजीवी वाशब्दस्याप्यर्थत्वात् सोऽपि, आस्तां गृहादिमान् इत्यर्थः, दुःशीलो नरकान्न मुच्यते, अत्रोदाहरणं (ह. ३७)
राजगृहे कश्चिद् द्रमक उद्यानिकानिर्गतजनेभ्यो भिक्षामलभमानो रुष्टः, सर्वेषां चूर्णनाय वैभारगिरिशिलां चालयस्ततो।
न्तरम्
उत्तरा०८
Jain Educati
o
nal
For Privale & Personal use only
jainelibrary.org