________________
RECORRECASSESEARCH
मस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गति प्रति मार्गस्य कारणत्वं प्रतीयत एव, तद्रूपाणि चामूनि चत्वारि कारणानीति, तथा ज्ञानदर्शने लक्षणं-चिह्न यस्याः सा ज्ञानदर्शनलक्षणा, यस्य हि तत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोमूलकारणतां दर्शयितुमित्थमुपन्यासः, यद्वा मोक्षे-उक्तलक्षणे मार्गः-शुद्धो 'मृजू शुद्धा विति धातुपाठात्तस्य गतिः-प्राप्तिस्तां ज्ञानदर्शने-विशेषसामान्योपयोगरूपे लक्षणम्-असाधारणं खरूपं यस्याः सा तथा तां, न चेह नियुक्तिकृता मार्गगत्योरन्यथाव्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस्य तेनाभिधानात् , शेषं प्राग्वदिति सूत्रार्थः ॥ यदुक्तं 'मोक्षमार्गगतिं शृणुते'ति, तत्र मोक्षमार्ग तावदाह
नाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मरगुत्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥२॥ | ज्ञायते-अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं, तच सम्यगज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यगरूपमेव, दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्पादितमर्हदभिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम् , 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति-गच्छन्त्यनेन मुक्ति| मिति चरित्रम्, एतदपि सम्यगृपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसक्रियाप्रवृत्तिनि|वृत्तिलक्षणं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो-बाह्याभ्यन्तरभेदभिन्नं यदहद्वचनानुसारि तदेव समीची
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org