SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ५५३ ॥ Jain Education In | दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । पूर्वत्रैकस्थानस्थितानामेव पर्यटनमुक्तम्, इह तु देशान्तरगमन इति न पौनरुक्तयं, प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रपङ्कार्थः ॥ इत्थं खलुङ्कस्येव | | समिलाभङ्गादिना दुः शिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वम्, अत एव खखामिक्लमासमाधिजनकत्वं चोक्तम्, इदानीं तैरेव प्रापितक्लमासमाधिर्यदसावचेष्टत तदाह अह सारही विचिंते, खलुंके हि समागए । किं मज्झ दुट्ठसीसेहिं ?, अप्पा मे अवसीअई ॥ १५ ॥ जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दृढं परिण्हई तवं ॥ १६ ॥ 'अथे 'ति क्लमासमाधिसम्भवानन्तरं सारथिरिव सारथिः स्खलितप्रवर्त्तकतयाऽऽचार्यादिः 'विचिन्तयति' ध्यायति, आचार्यसमाधिप्रतिसन्धानपक्षे तु 'अथे' त्यनन्तरोक्तचिन्तानन्तरं 'सारथिः ' स एव गर्गाचार्यः खलुङ्खैरिव खलुङ्खैः - दुःशिष्यैः, हेतौ तृतीया, श्रमं - खेदमागतः - प्राप्तः श्रमागतः, ते हि दुष्टगववदनेकधा प्रेर्यमाणा अपि सन्मार्गमगच्छन्तो गुरुश्रमहेतव एव भवन्ति, यदिवा समागतः खलुङ्खैरिति च सहार्थे तृतीया, यद्विचिन्तयति तदाह- किं ?, न किञ्चिदित्यर्थः, ममैहिकमामुष्मिकं वा प्रयोजनं सिध्यतीति गम्यते, कैः ? - दुष्टशिष्यैः प्रक्रमात्प्रेरितैः, किमेवमुच्यते इत्याहआत्मा 'मे' ममावसीदति, एतत्प्रेरणादिव्यग्रतया तथाविधस्वस्वकृत्याकरणेन, तत एतत्त्यागतो वरमुद्यतविहारेणैव | विहृतमिति भावः । अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह- यादृशा मम शिष्याः, 'तुः' पूरणे, तादृशा For Private & Personal Use Only खलुङ्की याध्य. २७ 1144311 w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy