________________
संधत्त इति व्याख्यायते, द्वितीयसूत्रे तु वहने 'वहमाणस्स'त्ति अन्तर्भावितण्यर्थतया वाहयमानस्य विनीतगवादीन् यथा कान्तारमतिवर्तते तथा योग्यान् शिष्यान् वाहयमानस्य-कृत्येषु प्रवर्तयतः संसारोऽतिवर्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्यायते, इत्थमात्मनः समाधिप्रतिसन्धानाय
विनीतखरूपं परिभाव्य स एवाविनीतखरूपं यथा परिभावयति तथाऽऽह-खलुंकेत्यादिसूत्रद्वादशकम् । खलुङ्कान् 18 योनिर्दिष्टखरूपः 'तुः' विशेषणे योजयति-योक्रयति वहन इति प्रक्रमः, स किमित्याह-'विहंमाणो'त्ति सूत्रत्वाद्
विशेषेण 'नन्' ताडयन् 'क्लाम्यति' श्रमं याति, पाठान्तरतः क्लिश्यति, अत एव 'असमाधि' चित्तोद्वेगरूपं 'वेदयते' अनुभवति 'तोत्रकः' प्राजनकः, स च 'से' इति तस्य खलुङ्कयोजयितुः "भज्यते' अतिताडनाद्भङ्गं याति । ततश्चा|तिरुष्टः सन् यत् कुरुते तदाह-एक 'दशति' दशनैर्भक्षयति 'पुच्छे' बालधौ, 'एकम्' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभापणादीनाम् , 'अभीक्ष्णं' पुनः पुनः, अथ किमेते कुर्वन्ति ? येन योजयितुरेवं निर्वेदहेतव इत्याह-'एकः कश्चित् खलुङ्को गौः 'भनक्ति' आमर्दयति, कां?-'समिला' युगरन्ध्रकीलिकाम् , 'एकः' अन्यस्तामभङ्क्त्वाऽपि उत्पथम् -उन्मार्ग प्रस्थित उत्पथप्रस्थितो भवतीति गम्यते । तथा 'एकः' अपरः पतति 'पार्थेन' एकगात्रविभागेन, गम्यमानत्वादू भूमी, अन्यस्तु 'निवेसइ'त्ति निविशति-उपविशति, अपरश्च 'णिविजए'त्ति शेते, परः 'उत्कूदते' ऊर्दू गच्छति 'उप्फिडइ'त्ति मण्डूकवत्प्लवते, अन्यः 'शठः' शाठ्यवान् , अन्यः
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org