SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५४५॥ रस्य लोपे दैवसिकं 'चः' पूरणे 'अतिचारम्' अतिक्रमं 'चिन्तयेत्' ध्यायेत् 'अणुपुषसो त्ति आनुपूर्व्या-क्रमेण, | सामाचाप्रभातमुखवस्त्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः, उक्तं हि-"गोसमुहणंतगाई आलोइय देसिए य अइयारे । सवे समाणयित्ता हियए दोसे ठविजाह ॥१॥" किंविषयमतीचारं चिन्तयेदित्याह-'ज्ञाने' ज्ञानविषयमेवं दर्शने |र्यध्ययनं. चैव चारित्रे तथैव च । पारितः-समापितः कायोत्सर्गो येन स तथा वन्दित्वा प्रस्तावाद् द्वादशावर्त्तवन्दनेन 'तत' इत्यतीचारचिन्तनादनन्तरं 'गुरुम्' आचार्यादि 'देसियंति प्राग्वदू दैवसिक 'तुः' पूरणेऽतीचारम् 'आलोचयेत्' प्रकाशयेद् गुरूणामेव 'यथाक्रमम्' आलोचनसेवनान्यतरानुलोम्यक्रमानतिक्रमेण 'प्रतिक्रम्य' प्रतीपमपराधस्थानेभ्यो निवृत्य, प्रतिक्रमणं च मनसा भावशुद्धितो वाचा तत्सूत्रपाठतः कायेनोत्तमाङ्गनमनादितः, 'निःशल्यः' मायादिशल्यरहितः, सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा च वन्दित्वा द्वादशाव-वन्दनेन 'ततः' इत्युक्तविधेरनन्तरं |'गुरुम्' आचार्यादिकं 'कायोत्सर्ग' चारित्रदर्शनश्रुतज्ञानशुद्धिनिमित्तव्युत्सर्गत्रयलक्षणं, जातावेकवचनं, 'ततः' गुरुव-13 न्दनादनन्तरं कुर्यात्सर्वदुःखविमोक्षणम् । 'पारिये' त्यादि पूर्वाद्ध व्याख्यातमेव, स्तुतिमङ्गलं च सिद्धस्तवरूपं कृत्वा पाठान्तरं वा-सिद्धाणं संथवं किच्च'त्ति सुगम, 'कालम्' आगमप्रतीतं 'संपडिलेहए'त्ति संप्रत्युपेक्षते, कोऽर्थः? ॥५४५॥ प्रतिजागर्ति, उपलक्षणत्वाद् गृह्णाति च, एतद्तश्च विधिरागमादवसेयः । 'पढम'मित्यादि प्राग्वदू, व्याख्यातमेव, १ प्राभातिकमुखवत्रिकादिप्रत्युपेक्षणाया आलोच्य दैवसिकांश्चातिचारान् । सर्वे संमान्य हृदये दोषान् स्थापयेत् ॥ १॥ RSSXX Jain Education Intematonai For Private & Personal Use Only diainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy