________________
k
उत्तराध्य.
सामाचायध्ययनं.
बृहद्वृत्तिः ॥५४०॥
'मुखवस्त्रिका' प्रतीतामेव 'प्रतिलेख्य' प्रतिलेखयेत् 'गोच्छकं' पात्रकोपरिव[पकरणं, ततश्च 'गोच्छगलइअंगुलिउ'त्ति प्राकृतत्वादमुलिमिलातो-गृहीतो गोच्छको येन सोऽयमङ्गुलिलातगोच्छकः 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात्प्रमार्जयेदित्यर्थः । इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह-ऊर्ध्व' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकत्वेन स्थितत्वात्, वस्त्रतश्च तिर्यप्रसारितवस्त्रत्वात् , उक्तं हि-"उक्कुडुतो तिरियं पेहे जह विलित्तो' 'स्थिरं' दृढग्रहणेन 'अत्वरितम्' अद्रुतं स्तिमितं यथाभवत्येवं पूर्व प्रथम 'ता' इति तावद् 'वस्त्रं' पटलकरूपं, जातावेकवचनं, पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् , एवशब्दो भिन्नक्रमस्ततः 'पडिलेहि'त्ति 'प्रत्युपेक्षेतैव' आरतः परतश्च निरीक्षेतैव न तु प्रस्फोटयेत् , अथवा बिन्दुलोपाद् ‘एवम्' अमुना ऊर्ध्वादिप्रकारेण प्रत्युपेक्षेत न त्वन्यथेति भावः, तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति, तददर्शने च 'तो' इति 'ततः' प्रत्युपेक्षणादनन्तरं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत् प्रस्फोटयेत्-तत्प्रस्फोटनां कुर्यादित्यर्थः, तृतीयं च पुनरिदं कुर्यात्-यदुत प्रमृज्यात् , कोऽर्थः ?-प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः, कथं पुनः प्रस्फोटयेत्प्रमृज्याद्वेत्याह-'अनर्त्तितं' प्रस्फोटनं प्रमा
॥५४०॥
१ उत्कटुकस्तिर्यक् प्रेक्षेत यथा विलिप्तः
Jain Education in
For Private & Personel Use Only
jainelibrary.org