________________
अथ जीवाजीवविभक्तिरितिनाम पत्रिंशत्तममध्ययनम् ।
व्याख्यातमनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् , अधुना पत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवखरूपपरिज्ञानत एवासेवितुं शक्यन्त इति
तज्ज्ञापनार्थमिदमारभ्यते, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्र च भाष्यगाथा:-"तस्स अणुओगदारा चित्तारि उवक्कमे य निक्खेवे । अणुगम नए य तहा उवक्कमो छविहो तत्थ ॥१॥ नाम ठवणादविए खेत्ते काले तहेव
भावे य। एसो सत्थोवकमो वन्नेयवो जहकमसो॥२॥ अहवडणुपुवीणामप्पमाणवत्तवया य बोद्धबा । अत्यहिगारे तत्तो छ? य तहा समायारो॥३॥ सच्चे जहकमेणं वन्नेऊणं इमो समोयारो। अणुपुबीए उ तहिं उकित्तणपुची || ओतरइ ॥ ४ ॥ सा इह पुवाणुपुत्री पच्छणुपुची तहा अणणुपुवी । पुषणुपुषी छत्तीसइयं इमं पच्छ पुण पढमे ॥५॥
१ तस्य अनुयोगद्वाराणि चत्वारि उपक्रमश्च निक्षेपः । अनुगमो नयश्च तथा उपक्रमः पडिधस्तत्र ।। १॥ नाम स्थापना द्रव्यं क्षेत्रं कालः तथैव भावश्च । एष शास्त्रीयोपक्रमो वर्णयितव्यो यथाक्रमम् ॥ २॥ अथवा आनुपूर्वी नाम प्रमाणं वक्तव्यता च बोद्धव्या । अर्थाधिकारश्च ततः षष्ठश्च तथा समवतारः ॥ ३ ॥ सर्वान यथाक्रमं वर्णयित्वा अयं समवतारः (कार्यः) । तत्र आनुपूयौ उत्कीर्तनानुपूयोमवतरति ॥४॥ सेह पूर्वानुपूर्वी पश्चानुपूर्वी तथा अनानुपूर्वी । पूर्वानुपूर्व्या षट्त्रिंशत्तम इदं पश्चानुपूळ पुनः प्रथमम् ॥ ५ ॥
उत्तरा.११२
For Private & Personal Use Only
Bw.jainelibrary.org