________________
COLORDCNGACASGASCIEOCOM
कर्मबन्धसद्भावेऽपि न स्थितिसम्भवो, यदुक्तम्-"तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निजिणं"ति, आह-यदि कर्मनिस्सन्दो लेश्या तदा समुच्छिन्नक्रियं शुक्लध्यानं ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न लेश्यासद्भावः ?, उच्यते, नायं नियमो यदुत निस्सन्दवतो निस्सन्देन सदा भाव्यं, कदाचिन्निस्यन्दवत्खपि वस्तु-3 है पु तथाविधावस्थायां तदभावदर्शनात् , यचोक्तम्-अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभाव इति निश्चि
नुमः-योगपरिणाम एव लेश्येति, तदप्यसाधकं, यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूपा एव, यत उक्तम्-“यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते ॥१॥" अन्ये त्याहु:कार्मणशरीरवत्पृथगेव काष्टकाकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या,भावलेश्यामाह-द्विविधा च भावलेश्या'विशुद्धलेश्या'अकलुषद्रव्यसंपर्कजात्मपरिणामरूपा तथैव अविशुद्धा' इत्यविशुद्धलेश्या, तत्र द्विविधा विशुद्धलेश्या 'उवसमखइय'त्ति सूत्रत्वादुपशमक्षयजा,केषां पुनरुपशमक्षयौ ? यतो जायत इयमित्याह-कपायाणाम् , अयमर्थः-कपायोपशमजा कपायक्षयजा च, एकान्तविशुद्धिं चाऽऽश्रियैवमभिधानम् , अन्यथा हि क्षायोपशमिक्यपि शुक्ला तेजःपझेच विशुद्धलेश्ये संभवत एवेति । अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता 'द्विविधा' द्विभेदा 'णियमसा उत्ति, आपत्वात् 'नियमेन' अवश्यम्भावेन ज्ञातव्या 'पेजंमि यत्ति 'दोसंमिय'त्ति प्रेमणि च-रागे दोषे च द्वये, किमुक्तं भवति?-रागविपया द्वेषविषया च, इयं चात्कृिष्णनीलकापोतरूपा,
Jain Education
For Private & Personel Use Only
Klaw.jainelibrary.org