SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ -COREOCOCCASTORROGRECPECISCN2000 म्बन्धाद भविष्यतीति भवा-भाविनीत्यर्थः तादृशी सिद्धिर्येषां ते भवसिद्धिका-भव्यास्तेषाम् 'अभवसिद्धिकानां' तद्विपरीतानां द्विविधानामप्युक्तभेदेन प्रक्रमाजीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्येति प्रक्रमः, अत्र |च जयसिंहसूरिः कृष्णादयः षट् सप्तमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमिश्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो दबलेस'त्ति अजीवानां 'कम्मणो'त्ति आर्षत्वानोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्येह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गणश्च नक्षत्राणि च-कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम् , आभरणानि च-एकाबलिप्रभृतीनि आच्छादनानि च-सुवर्णचरितादीनि आदर्शा एवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या-अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्नोकर्मणि ज्ञातव्या दशविधैपा, अत्र च चन्द्रादिशब्दैस्त. द्विमानानि 'तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि खकायपरकायशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम्, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात् , इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्य Jain Education Inter For Private & Personel Use Only X1 jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy