________________
AAAAAAAAAAAAA*
उदहीसरिनामाणं, तीसई कोडिकोडीओ। उक्कोसिया ठई, अंतमुहुत्तं जहनिया ॥१९॥ आवरणिजाण दण्डंपि, वेयणिजे तहेव य । अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥२०॥ उयहीसरिसनामाणं, सत्तर कोडिकोडिओ। मोहणिज्जस्स उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २१॥ तित्तीससागरोवमा, उक्कोसेणं वियाहिया। ठिई उ आउकम्मस्स, अंतमुहुत्तं जहनिया ॥ २२॥ उदहीसरिसनामाणं, वीसई कोडिकोडिओ।। नामगोआण उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २३ ॥
उदधिः-समुद्रस्तेन सदृक्-सदृशं नाम-अभिधानमेषामुदधिसग्नामानि-सागरोपमाणि तेषां त्रिंशत्कोटीकोट्यः 'उक्कोसिय'त्ति उत्कृष्टा भवति 'स्थितिः' अवस्थानं, तथा मुहूर्तस्यान्तरं अन्तर्मुहूर्त, मुहूर्तमपि न्यूनमित्यर्थः, जघन्यैव जघन्यका प्रक्रमात्स्थितिः । केपामित्याह-'आवरणीययोः' अन्यत्रैतद्यपदेशाश्रवणाज्ज्ञानदर्शनविषययोः, ततो ज्ञानावरणीयदर्शनावरणीयोयोरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानमनयोरथस्य तत्त्वतोऽभिन्नत्वात् , उक्तं हि-"राजा भर्ता मनुष्यस्य, तेन राज्ञःस उच्यते। वृक्षस्तिष्ठति शाखासु, ता वा तत्रेति तस्य ताः॥१॥” तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहूर्तमानैव सूत्रकारेजाणोक्ता, अन्ये तु 'जघन्या(अपरा) द्वादशमुहूर्ता वेदनीयस्येति (तत्त्वा. अ.८सू. १९) द्वादशमुहूर्तमानामेवैतामिच्छन्ति, ततदभिप्रायं न विद्मः। उदधिसदृशनाम्नां सप्ततिकोटीकोव्यो मोहनीस्योयत्कृष्टा अन्तर्मुह जघन्यका। त्रयस्त्रिंशत्सागरो
For Private 3 Personal Use Only
M
w
.jainelibrary.org