SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Education | 'उपस्थितस्य' तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः, किमित्याह - खसङ्कल्पानाम् - आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकेल्पना-विशेषेण छेदनं स्वसङ्कल्पविकल्पना, दृश्यते हि छेदवाच्यपि कल्पशब्दः, यथोक्तम् - "सामर्थ्ये वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥" "आसुं'ति 'आशु' शीघ्रं 'संजायते' भवति, | पठन्ति च - 'ससंकष्पविकप्पणासो'त्ति, तथा 'अत्थे असंकम्पयतो'त्ति, तत्र च स्वस्य - आत्मनः सङ्कल्पः - अध्यवसायस्तस्य विकल्पा - रागादयो भेदास्तेषां नाशः - अभावः स्वसङ्कल्पविकल्पनाशः, तथा को गुणः ? इत्याह- 'अर्थान्' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्यवस्यतः 'ततः' इति खसङ्कल्पविकल्पनातः स्वसंकल्पविकल्पनाशाद्वा 'से' तस्य प्रहीयते कामगुणेषु तृष्णेति सूत्रार्थः ॥ ततः स कीदृशः सन् किं विधत्ते ? इत्याह सो वीयरागो कयसव्वकिच्यो, खवेइ नाणावरणं खणेणं । तव जं दरिसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥ 'सः' इति हीनतृष्णः 'वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकपायगुणस्थानावाप्तिरिति तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमा - णस्वरूपं 'क्षणेन' समयेन तथैव यद् 'दर्शनं' चक्षुर्दर्शनादि 'आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यच्च 'अन्तरायं' दानादिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy