________________
उत्तराध्य.
बृहद्वृत्तिः
॥६३०॥
Jain Education In
प्राग्वल्युटि ग्रहणं - ग्राह्यं तद्वदन्ति, अनेन रूपचक्षुषोर्ग्राह्यग्राहकभाव उक्तः, तथा च न ग्राहकं विना ग्राह्यत्वं नापि ग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाह - रागस्य हेतुं कारणं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञं, मनोज्ञरूपविषयमित्युक्तं भवति, 'आहुः' ब्रुवते, यत्र तु 'हेउं तमगुण्ण' मिति पाठस्तत्र 'तं'ति तचक्षुर्मनोज्ञं मनोज्ञरूपविषयत्वेन ततो दोषो - द्वेषः, उक्तं हि – “ ईर्ष्या रोषो द्वेषः” इत्यादि, तस्य हेतुममनोज्ञम् - अमनोज्ञरूपं, पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, उभयप्रक्रमेऽपि चक्षुष एव विशेप्यत्वेनोपदर्शनं, रूपस्य पूर्वसूत्रेणैव, एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्युक्तमुक्तं ताबुद्धर्तुकामो रूपे चक्षुर्न प्रवर्त्तयेत्, यदा तु पाश्चात्यपादत्रयं पूर्ववत्पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपं ग्रहणं - प्राथमिति व्याख्येयं ततश्चेहापि ग्राह्यग्राहकभाव उक्तः, तत्र चोक्त एवाभिप्रायः, तथा यदि चक्षू रागद्वेषकारणं न कश्चिद्वीतरागः स्यादत आहसमश्चेत्यादि, शेषं सुगमम् । आह-अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोषः ? येन तदुद्धरणार्थमित्थमुपदिश्यत इत्याह - रूपेषु यो 'गृद्धिं' गार्ध्यं रागमित्यर्थः, उक्तं हि वाचकैः - "इच्छा मूर्च्छा कामः सेहो गायै ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥” उपैति गच्छति 'तीव्राम्' उत्कटां गृद्धेर्विशेषणं, |स किमित्याह - अकाले भवम् आकालिकं - यथास्थित्यायुरुपरमादर्वागेव प्राप्नोति स 'विनाश' घातं, पाठान्तरतः
For Private & Personal Use Only
प्रमादस्था
ना० ३२
॥६३०॥
jainelibrary.org