________________
प्रमादस्था
उत्तराध्य.
ना०३२
बृहद्वृत्तिः ॥६२८॥
जे इंदियाणं विसया मणुण्णा,'न तेसु भावं निसिरे कयाई।
न यामणुन्नेसु मणंपि कुजा, समाहिकामे समणे तवस्सी ॥२१॥ ये 'इन्द्रियाणां' चक्षुरादीनां 'विषयाः' रूपादयः 'मनोज्ञाः' मनोरमाः न तेषु' विषयेषु 'भावम्' अभिसन्धिम् , अपेर्गम्यमानत्वाद्भावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, 'निसृजेत् कुर्यात् कदाचित् कस्मिंश्चित्काले, 'न च' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्तयितुम् अपिशब्दार्थश्च प्राग्वत् 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तैकाग्र्यं स च रागद्वेषाभाव एवेति स एवानेनोपलक्ष्यते, ततस्तत्कामो-रागद्वेषोद्धरणाभिलाषी श्रमणस्तपखीति च प्राग्वत्, नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्यभिधानम् ?, उच्यते, हेतुप्रक्रमात्, न चोभयोद्धरणहेतुतयैकोद्धरणहेतुता विरुध्यते, यदिवा तत्रापि रागस्य द्वेषोपलक्षणत्वादुभयोद्धरणोपायतैव विवक्षिता, किन्तु तत्र विविक्तशय्या-सामान्येनैकान्तशय्या गृह्यते, तदवस्थानस्य च प्रतीतैव तदुद्धरणोपायता, एवं प्रकामभोजिन एव दर्पतो द्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्तनमिन्द्रियाणामुपदिष्टम् , अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि| तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह
॥६२८॥
Jain Education
a
l
For Private
Personal Use Only
w.jainelibrary.org