________________
स्थान्तमेव अन्तकं-पर्यन्तं गच्छति 'वीतरागः' विगतकामानुगृद्धिरित्यर्थः ॥ ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धिप्रभव दुःखम् ?, उच्यते, 'यथा च' इति यथैव किम्पाको-वृक्षविशेषस्तत्फलानि, अपेर्गम्यमानत्वात् 'मनोरमाण्यपि' हृदयङ्गमान्यपि 'रसेन' आखादेन 'वर्णेन च' रुचिररक्तादिना चशब्दाद् गन्धादिना च 'भुज्यमानानि' उपभुज्यमानानि 'ते' इति 'तानि' लोकप्रतीतानि क्षोदयितुम्-अध्यवसनादिभिरुपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रममित्यर्थस्तस्मिन् जीविते-आयुषि पच्यमानानि-विपाकावस्थाप्राप्तानि मरणान्तदुःखदायीनीति शेषः, प्राग्यच्च लिङ्गव्यत्ययः, पठ्यते च-ते जीवियं खुदति पच्चमाणे'त्ति तानिकिम्पाकफलानि जीवितम्-आयुः 'ख़ुदति' आपत्वात् 'क्षोदयन्ति' विनाशयन्ति विपच्यमानानि, 'एतदुपमाः' किम्पाकफलतुल्याः कामगुणाः 'विपाके' फलप्रदानकाले, किमुक्तं भवति ?-यथा किम्पाकफलान्युपभुज्यमानानि मनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरणहेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमा विपाकावस्थायां तु नरकादिदुर्गतिदुःखदायितयाऽत्यन्तदारुणा एव, ततः सुखरूपतया प्रतिभासनं सुखहेतुत्वेऽनैकान्तिकमेव, किम्पाकफलानां मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति सूत्रैकादशकार्थः ॥ इत्थं बहुतरगुणस्थानानुयायित्वेन रागस्य प्राधान्यात्केवलस्यैवोद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमभिधित्सुर्दमितेन्द्रियत्वं च सिंहावलोकितन्यायाश्रयणेन व्याचिख्यासुरिदमाह
Jain Educationiklinal
For Private Personal Use Only
W
w.jainelibrary.org