________________
उत्तराध्य. पार्थस्येह सम्बन्धात्प्रमोक्ष एव, तं 'भाषमाणस्य' प्रतिपादयतः, यदिवा प्रमोक्षः-अपगमस्तं भाषमाणस्येति, कोऽर्थः -प्रमादस्था
यथाऽसौ भवति तथा त्रुवाणस्य 'मे' मम प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं चिन्ता वा येषां ते प्रतिपूर्णबृहद्वृत्तिः
माना० ३२ चित्ताः प्रतिपूर्णचिन्ता वा 'शृणुत' आकर्णयत, एकाग्रस्य-एकालम्बनस्यार्थाचेतसो भाव एकाग्र्यं-ध्यानं तच्च | ॥६२१॥ प्रक्रमाद्धादि तस्मै हितमेकाम्यहितं, पाठान्तरत-एकान्तहितं वा हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
णाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवजणाए।
रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥२॥ 'ज्ञानस्य' आभिनिबोधिकादेः 'सर्वस्य' निरवशेषस्य पाठान्तरतः 'सत्यस्य वा' अवितथस्य 'प्रकाशनया' इति प्रभासनया निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहो-दर्शनमोहनीयम-1|| टानयोः समाहारेऽज्ञानमोहं तस्य विवर्जना-परिहारो मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरित्यागादिना तया, अनेन स एव | ॥२१॥
सम्यग्दर्शनात्मकोऽभिहितः, तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य 'संक्षयेण' विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभिधानं, रागद्वेषयोरेव कपायरूपत्वेन तदुपघातकत्वाभिधानात् , ततश्चायमर्थः-सम्यग्दर्शनज्ञानचारित्रैः 'एका
For Private Personal Use Only
Jain Education
www.jainelibrary.org