________________
इति गम्यते, यस्तु भिक्षः 'न वावरे'त्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोर्नित्याभिसम्बन्धादर्थवशादर विभक्तिपरिणामतश्च तस्य भिक्षोः 'कायस्य' शरीरस्य 'व्युत्सर्गः' चेष्टां प्रति परित्यागो यः 'छटो सो परिकित्तितो'त्ति सूत्रत्वालिङ्गव्यत्यये षष्ठं 'तत्' प्रक्रमादभ्यन्तरं तपः परिकीर्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद् , अनेकविधत्वात्तस्य, उक्तं च-"देवे भावे य तहा दुविधुस्सग्गो चउविहो दव्वे । गणदेहोवहिभत्ते भावे कोहाइचातोत्ति ॥१॥" इति सूत्रषवार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नस्यैव फलमाह__एयं तवं तु दुविहं, जं सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥३७॥ त्तिबेमि॥
॥तवमग्गिज ॥ ३८॥ 'एतत्' अनन्तरोक्तखरूपं तवं तु दुविहति तपः द्विविधमपि उक्तभेदतो विभेदमपि यः सम्यक् 'आचरेत् |
आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग् भवति पण्डितः, पठन्ति च-'सो खवेत्तु रियं अरओ, नीरयं तु गई गए' इह च 'आयरे'त्ति तिब्यत्ययादाचारीत् , अतीतनिर्देशश्च भूतभविष्यतोरप्युपल
क्षणं, कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्यैतत्क्षेत्रापेक्षा (क्षया) वेति सूत्रार्थः ॥ इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां तपोमार्गगति नामकं त्रिंशत्तममध्ययनं समाप्तमिति ॥ ३०॥
१ द्रव्ये भावे तथा द्विविध उत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्ते भावे क्रोधादित्याग इति ॥ १॥
Jain Education in
For Private & Personel Use Only
d.jainelibrary.org