SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आदिशब्दात्प्रतिक्रमणार्हादिपरिग्रहः, इह पुनरुपचारादेवंविधपापविशुद्धथुपायभूतान्यालोचनादीन्येवालोचनादिशब्देनोक्तानि, उपचारनिमित्तं चात्र विषयविषयिभावः, एवंविधानि हि पापान्यालोचनादीनां विषय आलोचनादीनि च विषयीणीति भावनीयं, तथा चान्यत्र 'आलोयणपडिक्कमणे' त्यादिनाऽहंशब्दं विनैव तद्भेदाभिधानं, तदेवंविधमालोचनाहमादिर्यस्य तदालोचना दिकं, 'शेषाद्विभाषेति (पा.५-४-१५४)कप्रत्ययः, 'प्रायश्चित्तम्' उक्तनिरुक्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततः 'दशविधमेव' दशप्रकारमेव, दशविधत्वं चेत्थम्-"आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे। तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१॥" 'जईत्ति आर्षत्वाद् यद्भिक्षुः 'वहति आसेवते 'सम्यग' अवैपरीत्येन प्रायश्चित्तं तदाख्यातम् १॥विनयमाह-अभ्युत्थानमञ्जलिकरणमुभयमपि प्रतीतं 'तथे ति समुच्चये 'एवेति प्ररणे 'आसणदायण'ति सूत्रत्वादासनदानं पीठादिदानमित्यर्थः, गुरूणां-गौरवार्हाणां भक्तिर्गुरुभक्तिः, भावः-अन्तः करणं तेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा, विनय एष व्याख्यातः २॥ वैयावृत्त्यमाह'आयरियमाई'त्ति मकारोऽलाक्षणिकस्ततः आचायोदिके आचाये (यादि)विषये व्यापृतभावो वैयावृत्त्यम-उचिताहारादिसम्पादनम् .उक्तश्च-"वेयावच्चं वावडभावोतह धम्मसाहणणिमित्त। अन्नाइयाण विहिणा संपाडणमेस भावत्यो॥२॥" १ आलोचना प्रतिक्रमणं मिश्र विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यता च पाराश्चिकमेव ॥१॥२ वैयावत्यं व्याप्रतBIभावस्तथा धर्मसाधननिमित्तम् । अन्नादिकानां विधिना संपादनमेष भावार्थः ॥ २॥ उत्तरा. १०२ For Private Personal Use Only Thjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy