SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Jain Education In Shie तच्चतुर्थादिक्रमेण क्रियमाणमिह षण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाव्यामोहार्थ चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति, अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते - " एकाद्याद्या व्यवस्थाप्याः, पङ्कयोऽत्र यथाक्रमम् । एकादींश्च निवेश्यान्ते क्रमात्पङ्क्तिं प्रपूरयेत् ॥ १ ॥" अस्यार्थः - एक आदिर्येपां ते एकादयः- एककद्विकत्रिकचतुष्कास्ते आद्या यासु ता एकाद्याद्याः 'व्यवस्थाप्याः ' न्यसनीयाः 'पङ्कयः' श्रेणयः 'यथाक्रमं ' क्रमानतिक्रमेण, कोऽर्थः १ - प्रथमा एकाद्या एककादारभ्य, द्वितीया द्विकाद्या द्विकादारभ्य तृतीया - |त्रिकाद्या त्रिकादारभ्य, चतुर्थी - चतुष्काद्या चतुष्कादारभ्य, आह-एवं सति प्रथमपङ्क्तिरेव परिपूर्णा भवति द्वितीयाद्यास्तु न पूर्यन्त एव तत्कथं पूरणीया: ?, उच्यते, एकादींश्च निवेश्य व्यवस्थाप्याः 'अन्ते' इत्यग्रे 'क्रमात्' इति क्रममाश्रित्य 'पङ्क्तिम्' अपूर्यमाणा श्रेणिं 'पूरयेत्' परिपूर्ण कुर्यात्, तत्र च द्वितीयपङ्क्तौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपङ्कौ त्रिकचतुष्कयोः पर्यन्ते एकको द्विकः, चतुर्थपङ्कौ चतुष्कावसान एककद्विकत्रिकाः स्थाप्यन्ते, स्थापना चेयम् - १३, चतुर्थषष्ठाष्टमदशमप्रक्रमः, 'घन' इति घनतपः 'चः' पूरणे तथेति समु| चये भवतीति च क्रिया प्रतितपोभेदं ३ ४ १ २ योजनीया, अत्र च पोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या १२३ For Private & Personal Use Only v.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy