SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ISROORKERS थ्यादर्शनविजयं विनाऽतः स उच्यते-'पिज'त्ति प्रेम राग इत्यर्थः स च द्वेषश्च-अप्रीतिरूपो मिथ्यादर्शनं च-सांशयि-I कादि प्रेमद्वेषमिथ्यादर्शनानि तद्विजयेन 'णाणदंसणचरित्ताराहणयाए'त्ति ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठते' उद्यच्छति प्रेमादिनिमित्तत्वात्तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, 'कम्मगंठिविमोयणयाए'त्ति कर्मग्रन्थिः-अतिदुर्भेदघातिकर्मरूपस्तस्य विमोचना-क्षपणा कर्मग्रन्थिविमोचना तस्यै च, चस्य गम्यमानत्वात्तदर्थ चाभ्युत्तिष्ठते इत्यनुवर्त्य योज्यते, पठन्ति च-'अट्ठविहकम्मविमोयणाए'त्ति स्पष्टम् , अभ्युत्थाय च किं करोतीत्याह-'तत्प्रथमतया' तत्पूर्वतया, न हि तेन तत्पुरा क्षपितमासीदिति, आनुपूर्त्या अनतिक्रमेण यथानुपूर्वीम(विअ)टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, अत्र चेयं क्षपणानुपूर्वी-प्रथममनन्तानुबन्धिनः क्रोधादीन युगपदन्तर्मुहुर्तेन क्षपयति, तदनन्तभागं च मिथ्यात्वे प्रक्षिपति, ततस्तेन सहैव मिथ्यात्वं क्षपयति, प्रवर्द्धमानातितीव्रशुभपरिणामत्वात् , अतिसंभृतदवानल इवार्द्धदग्धेन्धन इन्धनान्तरं, ततो मिथ्यात्वांशं सम्यमिथ्यात्वे प्रक्षिप्य तत्क्षपयति, ततोऽपि तदंशसहितं सम्यक्त्वं, तदनु सम्यक्त्वावशिष्टदलिकसहितमप्रत्याख्यानप्रत्याख्यानावरणकपायाष्टकं युगपदेव क्षपितुमारभते, तत्क्षपणं च कुर्वन्नेताः प्रकृतीः क्षपयति, तद्यथा-"गइआणुपुचि दो दो जाईणामं च जाव चउरिंदी । आयावं उजो थावरनामं च सुहुमं च ॥१॥ साहारमपजत्तं णिहाणि च | १ गत्यानुपूव्यों द्वे द्वे जातिनाम च यावच्चतुरिन्द्रियम् । आतपमुद्योतं स्थावरनाम च सूक्ष्मं च ॥ १॥ साधारणमपर्याप्तं निद्रानिद्रां च Iw.jainelibrary.org Jain Education in For Private & Personal Use Only anal
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy