________________
CCCCORNOARDOCOM
तथा स्खसमयपरसमययोः संघातनीयः-प्रमाणपुरुषतया मीलनीयः खसमयपरसमयसंघातनीयो भवति, इह च खसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् ५९ । 'दर्शनसंपन्नतया' क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं. मिथ्यात्वं भवमिथ्यात्वं तस्य छेदन-क्षपणं भवमिथ्यात्वच्छेदनं करोति,कोऽर्थः १-क्षायिकसम्यक्त्वमवाप्नोति, ततश्च परमिति-उत्तरकालमुत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये वा जन्मन्युत्तरश्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशाभावरूपं विध्यानमवामोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' खं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् , संयोजनं च भेदेऽपि स्यादत आह-(सम्म-सम्यक) 'भावयन्' तेनात्मानमात्मसान्नयन् 'विहरति' भवस्थ केवलितया मुक्ततया वाऽऽस्ते, पठन्ति च-'अणुत्तरेणं णाणदसणणं विहरइ'त्ति अत्र च लक्षणे तृतीया ६० ।चरित्रसंपन्नतया 'शैलेशीभावं'ति शिलानामिमे शैलाः-पर्वतास्तेपामीशः शैलेशो-मेरुः
स इव शैलेशो-मुनिर्निरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था-शैलेशी तस्या भावः अशैलेशस्य वा शैलेशीभवनं शैलेदशीभावः, इत्यादिरनेकधा व्युत्पत्तिः, उक्तं हि-"सेलेसो किर मेरू सेलेसी होइ तहाऽचलया । होउं व असेलेसो सेलीसी होइ थिरयाए ॥१॥ अहवा सेलोच इसी सेलेसी होइ सो हु थिरयाते। सेव असेली होई सेलीसी
१ शैलेशः किल मेरुः शलेशी भवति या तथाऽचलता । भूत्वा वाऽशैलेशः शैलेशीभवति स्थिरतया ॥१॥ अथवा शैल इव ऋषिः शैलर्षिः (सेलेसी) भवति स एव स्थिरतया । स एव अशैलीभवति शैलेशी
in Education
For Private Personal Use Only
wjainelibrary.org