SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. कत्वं निर्जरयति ५७ । 'कायसमाहारणयाए'त्ति 'कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यवस्थापनरूपया सम्यक्त्व'चरित्रपर्यवान्' चारित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारबृहद्वृत्तिः कालुष्यसम्भवात् , चरित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि पराक्रमा. ॥५९२॥ कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहोदयमलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्व प्राग्वत् ५८ । एवं समाधारणात्रयाद्यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत्फलमाह-ज्ञानमिह प्रस्तावात् श्रुतज्ञानं तत्संपन्नतया जीवः सर्वभावानाम्-अशेषजीवादिहै पदार्थानामभिगमो-ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा सं(तत्सं)पन्नो जीवः 'चाउरते'त्ति उक्तनीतितश्चतुर न्तसंसारकान्तारे नैव 'विनश्यति' इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दुरीभवति, अमुमेवार्थ दृष्टान्तद्वारेण स्पष्ट तरमाह-यथा 'सूची' प्रतीता ससूत्रा सुप्रापतया 'न विनश्यति' कचवरादिपतिताऽपि न विशेषेण दूरीभवति तथा दजीवः सह सूत्रेण-श्रुतेन वर्तत इति ससूत्रः संसारे न विनश्यति, उक्तं च-"सूई जहा ससुत्ता ण णस्सई कयवरंमि | पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओवि संसारे ॥१॥" तत एव ज्ञानं च-अवध्यादि विनयश्च-ज्ञानविनयादिः तपश्च-वक्ष्यमाणं चारित्रयोगाः--चारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान प्राप्नोति, ५९२॥ १ सूचिर्यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवस्तथा सश्रुतो न नश्यति गतोऽपि संसारे ॥१॥ ACADROCESCARROSSICALCCX Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy