________________
कल्पा-देवलोका विमानानि-अवेयकानुत्तरविमानरूपाणि तेषूपपत्तिर्यस्यां सा कल्पविमानोपपत्तिका तां, किमुक्तं भवति ?-अनन्तरजन्मनि कल्पादिपु विशिष्टदेवत्वावाप्तिफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधना' ज्ञानाधाराधनात्मिकाम् 'आराधयति' साधयति, इयं चैवंविधाऽऽराधना तपखितायामपि तथाविधगुरुकर्माणं तथाविध| कर्मवेदनाऽभाववन्तं च जीवमपेक्ष्योक्ता, अन्तक्रियाभाजनं च जीववस्तु चतुर्धा भवति, तथाहि-कश्चित्प्रतिपद्यापि श्रामण्यं पालयन्नपि संयम तथाविधगुरुकर्मतया तथाविधविशिष्टाध्यवसायासम्भवेन तथाविधकर्मवेदनाया अभावान्न तद्भव एव मुक्तिभाग् भवति, किन्तु भवान्तरे दीर्घपर्यायावाप्त्या, यथा सनत्कुमारचक्री, तथा च स्थानाङ्गम्"तत्थ खलु इमे पढमे अंतकिरियावत्थ-महाकम्मे पञ्चायाए यावि भवति, समणाउसो! से णं समणे भवेत्ता अगा| राओ अणगारं पवइओ उपट्टिए नेयाउयस्स मग्गस्स संजमबहुले समाहिबहुले (संवरबहुले) लूहे तीरटीओ उवहाणवं दुक्खंखये तबस्सी, तस्स णं तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए दीहदीहेणं परियारणं सिज्झइ बुज्झइ मुच्चइ परिणिवाति सचदुक्खाणमंतं करेइ,जहा से सणंकुमारे राया चाउरतचक्कवट्टी
१ तत्र खलु इदं प्रथममन्तक्रियावस्तु-महाकर्मा प्रत्याजातश्चापि भवति, श्रमणायुष्मन् ! स श्रमणो भूत्वाऽगारात् अनगारितां प्रत्रजितः उपस्थितो नैयायिकाय मागोय संयमबहुलः समाधिबहुलः (संवरबहुलः) रूक्षस्तीरार्थी उपधानवान् दुःखक्षपकः तपस्वी, तस्य तथाप्रकार
तपो भवति न तथाप्रकारा वेदना भवति, स तथाप्रकारः पुरुषजातो दीर्घदीर्पण पर्यायेण सिध्यति बुध्यति मुच्यते परिनिर्वाति सर्वदुःखानाहमन्तं करोति, यथा स सनत्कुमारो राजा चातुरन्तचक्रवर्ती,
in Education inte
For Private
Personel Use Only
ary.org