SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. सम्यक्त्व. पराक्रमा. वृहद्धृत्तिः ॥५८॥ पेण सहावद्येन वर्तन्त इति सावद्याः-कर्मवन्धहेतवो योगा-व्यापारास्तेभ्यो विरतिः-उपरमः सावद्ययोगविरतिस्तां|| जनयति, तद्विरतिसहितस्यैव सामायिकसम्भवात् , न चैवं तुल्यकालत्वेनानयोः कार्यकारणभावासम्भव इति वाच्यं, केषुचित्तुल्यकालेष्वपि वृक्षच्छायादिवत्कार्यकारणभावदर्शनाद्, एवं सर्वत्र भावनीयम् ८ । सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकृत एवेति तत्सूत्रमाह-'चतुर्विंशतिस्तवेन' एतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शनं-सम्यक्त्वं तस्य विशुद्धिः-तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति ९। स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतिपत्तिरिति तदाह-वन्दनकेन' आचार्याधुचितप्रतिपत्तिरूपेण 'नीचैर्गोत्रम्' अधमकुलोत्पत्तिनिवन्धनं कर्म क्षपयति, 'उच्चैर्गोत्रं तद्विपरीतरूपं निबध्नाति, 'सौभाग्यं च' सर्वजनस्पृहणीयतारूपम् 'अप्रतिहतं' सर्वत्राप्रतिस्खलितमत एवाज्ञा-जनेन यथोदितवचनप्रतिपत्तिरूपा फलं 'निर्वतयति' जनयति, तद्वतो हि प्राय आदेयकर्मणोऽप्युदयसम्भवादादेयवाक्यताऽपि संभवतीति, 'दक्षिणभावं च' अनुकूलभावं जनयति लोकस्येति गम्यते, तन्माहात्म्यतोऽपि सर्वः सर्वावस्थाखनुकूल एव भवति १०॥ एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेषु स्खलितसम्भवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह-'प्रतिक्रमणेन' अपराधेभ्यः प्रतीपनिवर्तनात्मकेन व्रतानां-प्राणातिपातनिवृत्त्यादीनां छिद्राणिअतिचाररूपाणि विवराणि व्रतच्छिद्राणि 'पिदधाति' स्थगयति अपनयतीतियावत् , तथाविधश्च कं गुणमवाप्नोती | ॥५८०॥ Jain Education in For Private & Personel Use Only O jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy