________________
HOSAUGALAS
उत्तराध्य. समर्थ इतियावत् 'जातमेदा' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहज्जठरः 'प्रीणितः' तर्पितः, यथासमयमुप-४॥
औरभीढौकिताहारत्वात् , एभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति “यस्य च भावेन भावलक्षण"मिति (पा० बृहद्वृत्तिः
याध्य.७ २-३-३७) सप्तमी, किमित्याह-आदेशं 'प्रतिकाङ्क्षति' प्रतिपालयति, पाठान्तरतः 'परिकाङ्क्षति' इच्छति, न चास्य तत्त्वतःप्रतिपालनमिच्छा वा सम्भवति, अतः प्रतिकातीव प्रतिकाङ्कतीत्युपमार्थोऽवगन्तव्यः, एवं परिकासतीत्यत्रापि, इति सूत्रार्थः ॥ स किमेवं चिरस्थायी स्यादित्याह
जाव न एज्जति आएसो, ताव जीवति सेऽदुही । अह पत्तंमि आएसे, सीसं छेत्तूण भुज्जति ॥३॥
व्याख्या-'यावदिति कालावधारणे 'नेति' नायाति, कोऽसौ?-आदेशः, तावत् नोत्तरकालं 'जीवति' प्राणान् * धारयति, 'सेऽदुहि'त्ति अकारप्रश्लेषात् स इत्युरभ्रोऽदुःखी सुखी सन् , अथवा वध्यमण्डनमिवास्यौदनदानादिनीति
तत्त्वतो दुःखितैवास्येति दुःखी, 'अह पत्तंमि आएसे' अथानन्तरं 'प्राप्ते' आगते आदेशे श्रिता अस्मिन् प्राणा इति शिरः तच्छित्त्वा-द्विधा विधाय भुज्यते, तेनैव स्वामिना पाहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनु
॥२७३॥ स्त्रियते-ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिजमाणं दहें तिसितोऽवि भएणं माऊए थणं णाभि
१ ततः स वत्सस्तं नन्दितकं प्राघूर्णकेष्वागतेषु वध्य (हन्य)मानं दृष्ट्वा तृषितोऽपि भयेन मातुः स्तन्यं नाभि
A ROSSESSAX
Jain Education
For Privale & Personal use only
www.jainelibrary.org