________________
उत्तराध्य.
बृहद्वृत्तिः ॥२५५॥
त्तस्य आश्रयतः औदयिको बहुतरजीवाश्रयत्वात् तस्य, तथा च वृद्धाः-"आसयओ ओदयितो भावो, तंमि भावे क्षुल्लकनिबहुतरा जीवा वटुंति" पारिणामिकाविवक्षया चैतत् सम्भाव्यते, अतः पारिणामिक एवाश्रयतो महान् , अशेष
ग्रन्थीयम्. जीवाजीवद्रव्याश्रयत्वात् , प्रस्तुतमर्थमाह-एतेषाम् अनन्तरमुक्तानां नामादिमहतां प्रतिपक्षो' विपक्षः क्षुल्लकानि भवन्ति, तत्रापि नामस्थापने प्रतीते, द्रव्यतः परमाणुः, क्षेत्रतः आकाशप्रदेशः, कालतः समयः, प्राधान्यतः सचि|त्ताचित्तमिश्रभेदतनिधा, तत्र सचित्तं द्विपदमाहारकं शरीरं चतुष्पदं सिंहः अपदं लवङ्गपुष्पम् , अचित्तं हीरकः, मिश्र जन्मसमयानन्तरमलड्कृतस्तीर्थकृत् , प्रतिक्षुल्लकमामलकादरं बदराचनक इत्यादि, भावक्षुल्लकं क्षायिको भावः, उक्तं हि वृद्धैः-"सवेत्थोवा जीवा खाइए भावे वटुंति” सांसारिकसत्त्वापेक्षं चैतद् , अन्यथौपशमिक एव सर्व |तया भावक्षुलकं सम्भवतीति गाथार्थः ॥ इत्थं क्षुल्लकनिक्षेपमभिधाय निर्ग्रन्थनिक्षेपमाहनिक्खेवो नियंठमि चउबिहो दुविहोय दत्वमि । आगमनोआगमओ नोआगमतो य सो तिविहो २३७/४ | व्याख्या-'निक्षेपो' न्यासः 'णियंठमिति निर्ग्रन्थे निर्ग्रन्थविषयः 'चतुर्विधो' नामस्थापनाद्रव्यभावभेदात् ,|| तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये आगमनोआगमतश्च, तत्रागमतः प्राग्वत् , नोआगमतश्च 'स' इति ॥२५५॥ निग्रन्थः 'त्रिविधः' त्रिभेद इति गाथार्थः॥ त्रैविध्यमेवाह
१ आश्रयत औदायिको भावः तस्मिन् भावे बहुतरा जीवा वर्तन्ते । २ सर्वस्तोका जीवाः क्षायिके भावे वर्त्तन्ते
an
For Private & Personal use only