SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ GARLOCARS. ॥ उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने मरणविभक्तिरुक्ता, तत्रापि चानन्तरं पण्डितमरणं, तच 'विरयाण पंडियं बैंति'त्ति वचनाद्विरतानामेव, न चैते विद्याचरणविकला इति ततखरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्याध्ययनस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्तीत्यादिचर्चस्तावद्यावन्नामनिष्पन्ननिक्षेपे क्षुल्लकनिर्ग्रन्थीयमिति नाम, ततः क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपः कार्यः, तत्र क्षुल्लकस्य विपक्षो| महान् , तदपेक्षत्वात् क्षुल्लकस्य, इति तन्निक्षेपे निक्षिप्तमेव तद्भवतीत्यभिप्रायेणाहनामं ठवणा दविए खित्ते काले पहाण पइ भावो । एएसि महंताणं पडिवक्खो खुल्लया हुंति ॥ २३६ ॥ व्याख्या-अत्र नामस्थापने क्षुण्णे, महच्छब्दश्च प्रक्रमात् सर्वत्र गम्यते, तत्रागमतो ज्ञाताऽनुपयुक्तो द्रव्यमहत् , नोआगमतो ज्ञशरीरभव्यशरीरतद्वयतिरिक्तं द्रव्यमहद् अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुर्भिः समयैः सकहाललोकमापूरयति, क्षेत्रमहत् लोकालोकव्याप्याकाशं, कालमहद् अनागताद्धा, प्रधानमहत्रिधा-सचित्तमचित्तं मित्रं च, तत्र सचित्तं द्विपदं चतुष्पदमपदं च, तत्र द्विपदं तीर्थकृत् चतुष्पदं सरभः अपदं पद्मादिह्रदोत्पन्नं पद्मम् , अचित्तं । चिन्तामणिः, मिश्रं तीर्थकृदेव राज्याभिषेकादिष्वलकृतः, प्रतिमहत् यदन्यापेक्षया महदुच्यते, यथा सर्पपाचनकश्चनकाद्वदरमित्यादि, भावमहत् प्राधान्यतः क्षायिको भावः कालतः पारिणामिकोऽनाद्यनन्तजीवाजीवत्वादिरूपत्वा Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy