SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ गाथात्रयं प्राग्वन्नवरं गौतमामिलाप एव विशेषः, ‘एवमेव' उक्तप्रकारेणैव 'केशेरपि' केशिशब्दस्यापि निक्षेप(:)चतुI|कको भवति, ज्ञातव्य इति शेषः, गाथात्रयार्थः ॥ नामान्वर्थमाह गोअम केसीओ आ संवायसमुट्ठियं तु जम्हेयं । तो केसिगोयमिजं अज्झयणं होइ नायवं ॥ ४५१ ॥ | गौतमात् केशिनश्च संवादः-परस्परभाषणं वचनैक्यं वा यतस्तयोस्तात्पर्यत एकार्थाभिधायितयै(तै)व ततः संवादात्समुत्थितम्-उत्पन्नं संवादसमुत्थितम् , अनेन भावार्थ उक्तः, तुः अवधारणे, ततो गौतमात्केशिनश्च संवादसमु त्थितमेव यस्मादेतत्-प्रस्तुतं ततः केशिगौतमयोभवमित्यर्थे 'नामधेयेन नामधेयत्वेऽस्येति वृद्धसज्ञत्वात् , 'वृद्धा४च्छः ' (पा०४-२-११४) इति छप्रत्यये केशिगौतमीयमध्ययनं भवति' ज्ञातव्यमिति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, इदानीं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥१॥ 'जिनः' परीषहोपसर्गजेता पार्थ इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह-अर्हति देवेन्द्रादिविहितानि वन्दननमस्करणादीन्यर्हन् तीर्थकृदित्यर्थः, अत एव लोकपूजितः संबुद्धः-तत्त्वावगमवानात्माऽस्येति संबुद्वात्मा, 'चः पूरणे, स चानुत्पन्नकेवलोऽपि स्यादित्याह-'सर्वज्ञः' सकलद्रव्यपर्यायवित् , तथा धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरः 'जिनः' जितसकलकर्मा, भवोपग्राहिकर्मणामपि दग्धर DostostSSSS2015 Jain Educat i onal For Private & Personal Use Only nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy