________________
नम् , 'अहेसि'त्ति अभूत् , इह च यदरिष्टनेमेरर्हत्त्वं रथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदहद्भातृत्वेन स्वगुणप्रकर्षेण च रथ-8) नेमेर्माहात्म्यख्यापनार्थम् । चतुर्थगाथया पर्यायपरिमाणाभिधानं, तत्र चत्वारि वर्षशतानि गृहस्थपर्यायः वर्ष छद्म-|| स्थपर्यायः वर्षशतकपञ्चकं केवलिपर्याय इति मिलितानि नव वर्षशतानि वर्षाधिकानि सर्वायुरभिहितम्, एष 'चैवविति चतुशब्दौ पूरणे, तत एष एव च वर्षाधिकवर्षशतनवकलक्षणः, शेषं स्पष्टमिति गाथापञ्चकार्थः ॥ सम्प्रति प्रतिभग्नपरिणामतया मा भूद्रथनेमौ कस्यचिदवज्ञेति सूत्रकृदाह____ एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विनियति भोगेसुं, जहा सो पुरुसोत्तमो ॥४९॥ त्तिमि
॥रहनेमिजं ॥ २२॥ _ 'एवम्' इति वक्ष्यमाणं 'कुर्वन्ति' विदधति 'संयुद्धाः' वोधिलाभतः ‘पण्डिताः' बुद्धिमत्त्वेन 'प्रविचक्षणाः ।
प्रकर्षण शास्त्रज्ञतया न त्वनीदृशाः, किमित्याह-विशेषेण कथञ्चिद्विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवहैतन्ते, 'भोगेसुन्ति भोगेभ्यो यथा सः 'पुरुषोत्तमो' रथनेमिः, अनीशा ह्येकदा भग्नपरिणामा न पुनः संयमे प्रवर्तितुं
क्षमाः, ततो भोगविनिवर्त्तनात् संबुद्धादिविशेषणान्वितत्वेन कथमयमवज्ञास्पदं भवेदिति भावः, उपदेशपरतया वा प्राग्वद्याख्येयमिति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इति श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायांद्वाविंशतितममध्ययनं समाप्तमिति ॥२२॥
A
Sain Educa
jainelibrary.org
For Private & Personal Use Only
t
ional