________________
सूत्रद्वयम् 'तस्याः' राजीमत्याः 'सः' रथनेमिः 'वचनम्' अनन्तरोक्तानुशिष्टिरूपं 'श्रुत्वा' आकर्ण्य 'संयतायाः ' प्रत्र| जितायाः सुष्ठु - संवेगजनकत्वेन भाषितम्-उक्तं सुभाषितम् 'अङ्कुशेन' प्रतीतेन यथा 'नागः' हस्ती पथीति शेषः, एवं 'धर्मे' | चारित्रधर्मे 'संपडिवाइओ'त्ति 'संप्रतियातितः' संस्थितः, तद्वचसैवेति गम्यते । अत्र च वृद्धसंप्रदायः - "णेउरपंडियाक्खाणययं भणिऊण जाव ततो रुट्ठेण राइणा देवी मेंठो हत्थी य तिन्निविछिन्नकडगे चडावियाणि, भणिओ य मेंठो - एत्थं वाहेहि हत्थि, दोहि य पासेहिं वेणुग्गहा ठविया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरियो जाणइ ?, एयाणि मारेयवाणि, तहावि राया रोसं न मुञ्चति, ततो अ तिन्नि पाया आयासे कया, एगेण ठितो, लोगेण अक्कंदो कतो- किमेयं हत्थिरयणं वावाइजति ?, रण्णा मिठो भणिओ-तरसि णियत्तेउं ?, भणइ - जइ दुयग्गाणवि अभयं देसि, दिण्णं, ततो तेण अंकुसेण नियत्तिओ हत्थित्ति ।” इह चायमभिप्रायः - यथाऽयमीगवस्थो | द्विपोऽङ्कुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोत सिकस्तद्वचनेन अहितप्रवृत्तिनिवर्त्तकतयाऽङ्कुशप्रायेण धर्म इति,
१ नूपुरपण्डिताख्यानकं भणित्वा यावत्ततो रुष्टेन राज्ञा देवी हस्तिपकः हस्ती च त्रयोऽपि छिन्नकटके आरोहिताः, भणितश्च हस्तिपक:अत्र पातय हस्तिनं, द्वयोश्च पार्श्वयोः वंशग्राहाः स्थापिताः, यावदेकः पादः आकाशे स्थापितः, जनो भणति - किमेष तिर्यङ्ग जानाति ?, एते | मारयितव्ये, तथापि राजा रोषं न मुञ्चति, ततश्च त्रयः पादा आकाशे कृताः, एकेन स्थितः लोकेनाक्रन्दः कृतः - किमेतत् हस्तिरत्नं व्यापाद्यते ?, राज्ञा मेण्ठो भणितः - शक्नोषि निवर्तयितुं ?, भणति - यदि द्वयोरप्यभयं ददासि, दत्तं, ततस्तेनाङ्कुशेन निवर्त्तितो हस्तीति ।
Jain Educationtional
For Private & Personal Use Only
ainelibrary.org