________________
Jain Educati
च ' रक्खमाणी' त्ति रक्षन्ती, शीलध्वंसे हि कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनातस्ते अपि विना - शिते स्यातामित्येवमुक्तं, यद्यपि 'असि' भवसि 'रूपेण' आकारसौन्दर्येण 'वैश्रमणः' धनदः 'ललितेन' सविलासचे - | ष्टितेन ' नलकूबर: ' देवविशेषः 'ते' इति त्वां 'साक्षात् ' समक्षः 'पुरन्दरः' इन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः, | रूपाद्यभिमानी चायमित्येवमुक्तः ॥ अपरं च धिगस्तु 'ते' तव पौरुषमिति गम्यते, अयशः कामिन्निव अयशःकामिन् ! - अकीर्त्यभिलाषिन् !, दुराचारवाञ्छितया, यद्वा 'ते' तव यशो - महाकुलसंभवोद्भूतं धिगस्त्विति सम्बन्धः 'कामिन् !' | भोगाभिलाषिन् ! 'जीवितकारणात् जीवितनिमित्तमाश्रित्य तदनासेवने हि तथाविधदशावासौ मरणमपि स्यादि - | त्येवमभिधानं, 'वान्तम्' उद्गीर्ण यत् शृगालैरपि परिहृतं तदिच्छस्यापातुं यथा हि कश्चिद्वान्तमापातुमिच्छत्येवं | भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमिवापातुम् - उपभोक्तुमिच्छति अतः 'श्रेयः' कल्याणं 'ते' तत्र मरणं भवेत्, न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात्, अनूदितं चैतद् - "विज्ञाय वस्तु निन्यं त्यक्त्वा गृह्णन्ति किं | क्वचित्पुरुषाः ? | वान्तं पुनरपि भुङ्क्ते न च सर्वः सारमेयोऽपि ॥ १ ॥" 'अहमि' त्यात्मनिर्देशे 'चः' पूरणे 'भोज| राजस्य' उग्रसेनस्य त्वं च 'असि' भवसि अन्धकवृष्णेः, कुले जात इत्युभयत्र शेषः, अतश्च 'मा' इति निषेधे 'कुले' अन्वये 'गंधणे'त्ति 'गन्धनानां' सर्पविशेषाणां 'होमो'त्ति भूव, तच्चेष्टितानुकारितयेति भावः, ते हि वान्तमपि विषं
ational
For Private & Personal Use Only
ainelibrary.org