________________
SAMACROCOCCALC
गौतमसगोत्रः 'कालकच्छविः' कृष्णत्वक् । 'झसोदरो'त्ति झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झपोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरी यदुपु निहते जरासिन्धनृपतावधिगतभरता
राज्यः केशवो यौवनस्थेऽरिष्ठनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-'तस्य' अरिष्टनेमिनो राजीमती |भायाँ गन्तुमिति शेषः, याचते केशवस्त जनकमिति प्रक्रमः । सा च कीदृशीत्याह-'अर्थ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा-तस्यैव वरकन्या राजवरकन्या सुष्टु शीलं-खभावो यस्याः सा सुशीला चारु प्रेक्षितुं-अवलोकितुं शीलमस्याः चारुप्रेक्षिणी, नाधोष्टितादिदोषदुष्टा, 'विजसोयामणिप्पहत्ति |विशेषेण द्योतते-दीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्युदग्निः सौदामिनी च तडित् , अन्ये तु सौदामिनी प्रधानमणिरित्याहुः । 'अथ' इति याञ्चाऽनन्तरमाह जनकस्तस्याः-राजीमत्या उग्रसेन इत्युक्तं, 'जा से'त्ति सुब्व्यत्ययाद् येन तस्मै 'ददामि' विवाहविधिनोपढौकयाम्यहम् । एवं च प्रति| पन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता औषधयश्च-जयाविजय|द्धिवृद्ध्यादयः सर्वोषधयस्ताभिः स्लपितः-अभिषिक्तः, कृतकौतुकमगल इत्यत्र कौतुकानि-ललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च-दध्यक्षतर्वाचन्दनादीनि 'दिवजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्यमतिवृद्धं वा गुणैः
in Educat
i onal
For Private & Personal use only
x
netbrary.org