________________
वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी पूर्व ब्रह्मप्रतिपत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम् , अनेन च मूलगुणरक्षणोपाय उक्तः ।। कालेण कालं'ति रूढितः काले प्रस्तावे यद्वा कालेन-पादोनपौरुष्यादिना कालमिति-कालोचितं प्रत्युपेक्षणादि कुर्वन्निति शेषः, 'राष्ट्र' मण्डले 'वलावलं' सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः यथा यथाऽऽत्मनः संयमयोगहानिन जायते तथा तथेत्यभिप्रायः, अन्यच्च सिंहवत् 'शब्देन' प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' नैव सत्त्वाचलितवान् , सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात् , अत एव च वाग्योगम् अर्थाद् दुःखोत्पादकं 'सोच'त्ति श्रुत्वा 'न' नैव 'असभ्यम्' अश्लीलरूपम् 'आहुत्ति उक्तवान् । तर्हि किमयमकरोदित्याह-'उपेक्षमाणः' तमवधीरयन् पर्यव्रजत्, तथा 'प्रियम्' अनुकूलम् 'अप्रियम्' अननुकूलं 'सच तितिक्खएजत्ति सर्वम् 'अतितिक्षत' सोढवान् , किञ्च–'न सबत्ति सर्व वस्तु सर्वत्र स्थानेऽभ्यरोचयत, न यथादृष्टाभिलाषुकोऽभूदिति भावः, यदिवा यदेकत्र पुष्टालम्बनतः सेवितं न तत्सर्वम्-अभिमताहारादि सर्वत्राभिलषितवान् , न चापि पूजां गही वाऽभ्यरोचयतेति सम्बन्धः, इह च गर्दीतोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थ गाग्रहणं,यद्वा गाँ-परापवादरूपा । ननु भिक्षोरपि किमन्यथाभावः संभवति? येनेत्थमित्थं च तद्गुणाभिधानमित्याह-'अणेग'त्ति वृत्ताई, तत्र च 'अणेग'त्ति अनेके 'छन्दाः' अभिप्रायाः संभवन्तीति
Jain Educati
o
n
For Privale & Personal Use Only
lininelibrary.org