SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ समुद्रपा लीया. उत्तराध्य. पठन्ति च-'जहित्तु संगं चत्ति जहाय संगं च'त्ति वा उभयत्र हित्वा 'सझं खजनादिप्रतिबन्धं 'चः' पूरणे निपातः, बृहद्वृत्तिः महान् क्लेशो यस्माद्यस्मिन् वा तं महाक्लेशं, 'महंतमोहं'ति महान् मोहः-अभिष्वङ्गो यस्मिन् यतो वा तं तथा |विधं, 'कसिणं'ति कृत्स्नं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन 'भयानकं' महाक्लेशादिरूपत्वादेव विवेकिनां भया॥४८५॥ वह 'परियाय'त्ति प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादपूरणे, 'अभिरोयएजत्ति आर्ष मात्वाद् हस्तन्यर्थे सप्तमी, ततः 'अभ्यरोचत' अभिरोचितवान् तदनुष्ठानविषयां प्रीतिं कृतवान् , उपदेशरूपतां च तत्रन्यायेन ख्यापयितुमित्थं प्रयोगः, यद्वाऽऽत्मानमेवायमनुशास्ति-यथा हे आत्मन् । सङ्गं त्यक्त्वा प्रव्रज्याधर्ममभिरोचयेद् भवान् , एवमुत्तरक्रियास्वपि यथासम्भवं भावनीय, प्रवज्यापर्यायधर्ममेव विशेषत आह-'ब्रतानि' महाव्रतानि 'शीलानि पिण्डविशुद्धयाद्युत्तरगुणरूपाणि 'परीषहान्' इति भीमसेनन्यायेन परीषहसहनानि च । एतदभिरुच्य तदनन्तरं च यत् कृतवांस्तदाह-अहिंसां सत्यमस्तैन्यकं च 'तत्तो अ बंभं अपरिग्गहं च'त्ति ततश्च ब्रह्मचर्यमपरिग्रहं च 'प्रतिपद्य' अङ्गीकृत्य 'अब्बंभपरिग्गहं च' इति तु पाठे परिवयं चेत्यध्याहार्य 'पञ्च महाव्रतानि' उक्तरूपाणि 'चरेज'त्ति प्राग्वदचरत् , नाङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुतचारित्ररूपं जिनदेशितं 'विऊ'त्ति विद्वान्जानानः । 'सवेहिं भूएहिं' सुब्ब्यत्ययात् 'सर्वेषु' अशेषेषु प्राणिषु दयया-हितोपदेशादिदानात्मिकया रक्षणरूपया वाऽनुकम्पनशीलो दयानुकम्पी पाठान्तरतो दयानुकम्पो वा, क्षान्त्या न त्वशक्त्या क्षमते-प्रत्यनीकाधुदीरितदु SNOROSAGACASGANG ॥४८५॥ Jain Educati o nal For Privale & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy