________________
Jain Education
व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं 'ति दुहितरम्, उदूढवांश्च तामसौ, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा' मित्यापन्नसत्त्व 'परिगृह्य' आदाय स्वदेशम् 'अथ' अनन्तरं 'प्रस्थितः' चलितः । तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्रे' जलधौ 'प्रसूते' गर्भ विमुञ्चति स्मेति शेषः, 'अथेत्युपन्यासे 'दारकः' सुतः ‘तस्मिन्' इति प्रसवने 'जातः ' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य । क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतश्चम्पायां श्रावको वाणिजः 'घरं 'ति चस्य गम्यमानत्वाद् गृहं च खकीयं कृतं च तत्र वर्द्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः ' सुकुमारः । एवं च प्राप्तः कलाग्रहणयोग्यतां द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोवणेण य अप्फुण्णे'त्ति, चस्य भिन्नक्रमत्वाद्यौवनेन 'आपूर्णश्च' परिपूर्णशरीरश्थ, पठ्यते च - ' जोवणेण य संपण्णे' त्ति, तत्र च 'संपन्नः' युक्तोऽत एव 'सुरूपः' सुसंस्थानः 'प्रियदर्शनः सर्वस्यैवानन्ददाता | परिणयनयोग्यतां च तस्य विज्ञाय | 'रूपवतीं' विशिष्टकृतिं भार्या' पत्नीं 'पिता' पालितवणिग् 'आनयति' तथाविधकुलादागमयति 'रूपिणीं' रूपिणी - नाम्नी, परिणायितश्च तामसौ, प्रासादे क्रीडति -रमंति तया सह 'रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा । अथान्यदा | कदाचित् 'प्रासादालोकने' उक्तरूपे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि - रक्तचन्दनकरवीरादीनि तैः | शोभा - तत्कालोचितपरभागलक्षणा यस्यासौ वध्य मण्डनशोभाकस्तं 'वध्यं' बधाई कञ्चन तथाविधाकार्यकारिणं
ional
For Private & Personal Use Only
Binelibrary.org