SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४८३ ॥ Jain Education | पश्यति वाह्यं - नगरबहिर्वर्त्तिप्रदेशं गच्छतीति वाह्यगस्तं, कोऽर्थः ? - वहिर्निष्क्रामन्तं यद्वा 'वध्यगम्' इह वध्यशब्देनोपचाराद्वध्यभूमिरुक्ता । तथाविधं वध्यं दृष्ट्वा संवेगः - संसारवैमुख्यतो मुक्त्यभिलाषस्तद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपाल : 'इदं' वक्ष्यमाणमत्रवीत्, यथा - अहो ! 'अशुभानां कर्मणां पापानामनुष्ठानानां 'निर्याणम्' अवसानं 'पापकम्' अशुभम् 'इदं' प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयत इति भावः । एवं परिभावयन् 'संबुद्धः' अवगततत्त्वः 'सः' वणिक्पुत्रः ' तत्रे 'ति तस्मिन्नेव प्रासादालोकने 'भगवान्' माहात्म्यवान्, माहात्म्येऽपि भगवच्छव्दस्य दर्शनात् परं प्रकृष्टं संवेगमागतः, ततश्चापृच्छय मातापितरौ 'पचये' त्ति 'प्रात्राजीत्' प्रकर्षेण गतवान्, कोऽर्थः ? - प्रतिपन्नवान्, 'अनगारितां' निस्सङ्गतामिति सूत्रदशकार्थः ॥ सम्प्रति अनुवादोऽपि स्पष्टताहेतुर्व्याख्याङ्गमिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेषं च वदन्नाह नियुक्तिकार: चंपाऍ सत्थवाहो नामेणं आसि पालिओ नामं । वीरवरस्स भगवओ सो सीसो खीणमोहस्स ॥ ४२५ ॥ | अह अन्नया कयाई पोएणं गणिमधरिमभरिएणं । तो नगरं संपत्तो पिहुंडं नाम नामेणं ॥ ४२६ ॥ ववहरमाणस्स तहिं पिहुंडे देइ वाणिओ धूअं । तंपि अ पत्तिं घित्तूण निग्गओ सो सदेसस्स ॥ ४२७ ॥ अह सा सत्थाहसुआ समुद्दमज्झमि पसवई पुत्तं । पिअदंसणसवंगं नामेण समुद्दपालित्ति ॥ ४२८ ॥ ional For Private & Personal Use Only समुद्रपा लीया. २१ ॥४८३ ॥ ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy