________________
ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखार्दिता वा ॥ तथा 'सग'त्ति लोकरूढितः सौदर्याः खका वा-आत्मीया वा ॥ तथा 'भइणि'त्ति भगिन्यः ॥ अपरं च 'भार्या पत्नी 'अनुरक्ता' अनुरागवती 'अणुच्चय'त्ति अन्विति-कुलानुरूपं व्रतम्-आचारोऽस्था अनुव्रता पतिव्रतेति यावत् , वयोऽनुरूपा वा, पठ्यते च-'अणुत्तरमणुव्वय'त्ति, इह च मकारोऽलाक्षणिकः, अनुत्तरा-अतिप्रधाना 'उरन्ति 'उरः' वक्षः 'परिषिञ्चति' समन्तात्प्लावयति ॥ स्नात्यनेनेति स्नान-गन्धोदकादि मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह, पठ्यते च-तारिसं रोगमावण्णे'त्ति, 'तादृशम्' उक्तरूपं रोगम्' अक्षिरोगादिकम् 'आपन्ने' प्राप्ते मयीति गम्यते, सेति-भार्या बालेव बाला-अभिनवयौवना 'नोपभुते' नासेवते ॥ 'पासाओऽविण फिट्टइत्ति, अपिः चशब्दार्थः, मत्पार्थाच नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ॥ ततः' इति रोगाप्रतिकार्यतानन्तरमहम् ‘एवं' वक्ष्यमाणप्रकारेण 'आहंसुत्ति उक्तवान् , यथा 'दुक्खमा हुत्ति, हु एवकारार्थ, ततो दुःक्षमैव-दुःसहैव पुनः पुनः 'वेदना' उक्तखरूपा रोगव्यथा 'अनुभवितुं' वेदयितुं जे इति निपातः पूरणे ॥ यतश्चैवमतः 'सयं च'त्ति चशब्दोऽपिशब्दार्थस्ततः सकृदपि-एकदाऽपि यदि मुच्येऽहमिति गम्यते, कुतः १-'वेयण'त्ति वेदनायाः 'विउल'त्ति विपुलायाः-विस्तीर्णायाः 'इतः' इत्यनुभूयमानायाः, ततः किमित्याह-"क्षान्तः' क्षमावान् 'दान्तः' इन्द्रियनोइन्द्रियदमेन 'पवइए अणगारिय'त्ति, 'प्रव्रजेयं' गृहान्निष्कामयं ततश्च 'अनगारतां" भावभिक्षुतामङ्गीकुर्यामिति शेषः,यद्वा 'प्रव्रजेयं प्रतिपद्येयमनगारितां येन संसा
Jain Education
N
ational
For Private&Personal use only.
hinelibrary.org