________________
ACCASSACSILCARROSCORROCESS
विंशतिः सूत्राणि प्रायः प्रतीतार्थान्येव,नवरं 'न तुमं जाणे अणाहस्स'त्ति न त्वं 'जानी' अवबुध्यसे,अनाथस्येतिअनाथशब्दस्यार्थच-अभिधेयमुत्था वा-उत्थानं मूलोत्पत्ति केनाभिप्रायेण मयोक्त इत्येवंरूपां,पठ्यते च-'अत्थं पोत्थं || वत्ति, अर्थ प्रोत्यां वा-प्रकृष्टोत्थानरूपामत एव यथाऽनाथः सनाथो वा भवति तथा च न जानीषे इति सम्बन्धः॥ शृणु 'मे' मम कथयत इति शेषः, किं तदित्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति, यथा मेय'त्ति मया च प्रवर्त्तितमिति-प्ररूपितमनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ 'पुराणपुरभेयणि त्ति, पुराणपु
राणि भिनत्ति-स्वगुणैरसाधारणत्वाद्भेदेन व्यवस्थापयति पुराणपुरभेदिनी, बहुलवचनात्कर्तरि ल्युट,पठ्यते च-'नगटू राण पुडभेयण'त्ति लिङ्गव्यत्ययान्नगराणां मध्ये पुटभेदनं, पुनरिदमुक्तं भवति-प्रधाननगरी ॥ प्रथमे वयसि, इह प्र
क्रमाद्यौवने 'अतुला' अनुपमा अक्ष्णोर्वेदना-अक्षिरोगजनिता व्यथा 'अहोत्थ'त्ति अभूत् 'तिउले'त्ति आषत्वात् |'तोदकः' व्यथकः 'सर्वगात्रेषु' सर्वाङ्गेषु, पठ्यते च विउलो दाहो सवंगेसु यत्ति गतार्थ, 'सरीरविवरंतरे'त्ति शरीरविवराणि-कर्णरन्ध्रादीनि तेषामन्तरं-मध्यं शरीरविवरान्तरं तस्मिन् 'पवेसेज'त्ति 'प्रवेशयेत्' प्रक्षिपेत् , शरीरविवरग्रहणमतिसुकुमारत्वादान्तरत्वचो गाढवेदनोपलक्षणं. पठ्यते च-'सरीरवीयअंतरे आवेलिज'त्ति शरीरबीज-सप्तधातवस्तदन्तरे-तन्मध्ये 'आपीडयेद्' गाढमवगाहयेत , 'एव'मित्यापीड्यमानस्य शस्त्रवत् 'मे' ममाक्षिवेदना, कोऽर्थः-यथा तदत्यन्तवाधाविधायि तथैषापीति ॥ 'त्रिक'मिति कटिभागम् 'अन्तरा' मध्ये 'इच्छां वा'
उत्तराश्य.८०
For Privale & Personal use only
A
jainelibrary.org